________________
सूरिविरचितः] श्रीमुनिसुवतदेवस्तवः
(१३७)
तस्याग्रतो बहुतृणं त्रिदशेश्वरोऽपि
यद्वाल्यमेतदखिलं भुवनं लघीयः । अर्वाणमध्वनि नियोजयितुं यमेष
. श्रीसुव्रतो जिनपतिः स्वयमाजगाम ॥ १८ ॥ कृत्येऽपि केषु निरताः खलचेतसोऽपि
शुद्धाशया अपि चरन्ति च केऽथ कृत्यम् । तेषामगम्यपरलोकफलोदयानां
देवः परं फलयितुं चतुरो विपाकम् ॥ १९ ॥ क्लेशाविलेषु नरकैकनिवन्धनेषु
किं कुर्महे कलुषकर्मसु याति चेतः । न त्वेव देव ! परमं प्रशमाश्चितासु
निर्वाणहेतुषु मनागपि सक्रियासु ॥ २० ॥ कृत्येषु नन्दति विषीदति विक्रियासु
श्रद्धां दधाति विजहात्यपथं स एवं । श्रीदेवसुव्रत ! य एव विकाशिकुन्द
कोशत्विषां तव दशां ललितैः पवित्रः ॥ २१॥ आजन्मरोगिषु पराभवसारभाव
पीडावृथाकृतसमस्तगुणोदयेषुः । अस्मादृशेषु परदास्यनियन्त्रितेषु
काश्चिदिशं विमृश सुव्रतदेवदेव ! ॥ २२ ॥ स्तुतयः शतशः पुरा कृताः
कविभिः सन्ति महद्भिरगुताः ।