________________
जैनस्तोत्रसन्दोहे
[श्रीरामचन्द्र
वाताधिकास्तनुभृतो हि धनागमेन
विश्वोपकारिपयसापि वहन्ति पीडाम् ॥ १२ ॥ तान्यद्भुतान्यहरहः प्रविलोक्य पूर्व
सदृष्टयो जिन ! भवन्तु न तत्र चित्रम् । अस्मादृशः खलु कुतूहलधाम योऽय
मप्रेक्षिताद्भुतलवोऽपि यथार्थदृष्टिः ॥ १३ ॥ प्राप्तः कथञ्चिदपि तावदयं तवाध्या
श्रद्धालुतत्त्वमिदमस्ति मनोऽपि सम्यक् । तं किश्चिदप्यथ पृथु प्रथय प्रसादं
येन क्रियास्वपि भवत्यमलासु वृत्तिः ॥ १४ ॥ कालाय विश्वमहिताय नमोऽस्तु तस्मै
तेभ्यस्त्रिधास्मि विनतः सततं जनेभ्यः । यामैश्चतुर्भिरुपदेशगिरोऽभिवर्षन्
यत्रासि यैर्जिन ! कृतो निजनेत्रपात्रम् ॥ १५ ॥ मार्गान्तरप्रणयवासितचेतसोऽपि
स्वर्गीकसां चिरमुपासत एव लक्ष्मीम् । तत्किश्चिदस्ति मितपुण्यमपास्तपापं
स्थानं तु नेतुमलमेष तवैव पन्थाः ॥ १६ ॥ ताः सम्पदोऽपि विपदः खलु यास्त्वदुक्त
___ सूक्ताञ्जनामृतदृशां सुखयन्ति चेतः । श्लेष्मज्वरार्त्तवपुषां शिशिराम्बुपान
स्वास्थ्यस्य जीवितविहारपरो विपाकः ।। १७ ॥