________________
सरिविनिर्मितः] श्रीमुनिसुव्रतदेवस्तवः (१३५ ) अस्मासु दुःस्थितशिरोमणिषु प्ररूढ- ... :
श्रद्धाकणेषु करुणा तव तन चित्रम् । श्रद्धानवन्ध्यमनसः पशवोऽपि येनाss
कृष्टाः स्वयं भगवता भवसिन्धुमध्यात् ॥ ७॥ लक्ष्मीः प्रणश्यति चिरं सरुजो भवन्ति
नीचैरपि प्रसभमीश! तिरस्क्रियन्ते । त्वद्वाक्यतत्त्वपरिबोधसुधापराञ्चः
कां कां न नाथ ! विपदं कलयन्ति लोकाः ॥ ८॥ किं तैः श्रुतं किमवधारितमार्यकार्य
वन्ध्येषु किं परिणतं च महेश ! तेषु ।। वाचस्तवापि निशमय्य शमैकरूपा
लोकद्वयद्विषि विकर्मणि ये रमन्ते ॥ ९॥ कारुण्यमावह शरण्य ! कृपास्पदेषु
किं देवदेव ! तव दृष्टिरियं पराची । तैस्तैर्जगत्रयजयैः क्षतपुण्यपापै
स्ते सन्तु सङ्कटतमाः शिवभूमिभागाः ॥ १० ॥ भूमीभुजां त्रिदशभूमिभुजां च कुन्द
कोशाददातमहसः ककुभां मुखेषु । खेलन्ति याः सपदि कीर्तिकुरङ्गनेत्रा--
स्तास्ते पदाम्बुरुहभक्तिवधूभुजिष्याः ॥ ११ ॥ किं कौतुकं नवसुधामधुरैर्यदीश !
. सूक्तैस्तवापि परितप्यति कोऽपि- पाप्मा ।