SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ (१३४) जैनस्तोत्रसन्दोहे [श्रीरामचन्द्र यस्य क्रमाम्बुरुहमुद्गतचक्रचाप माश्रित्य कर्मजयिनः कति नाम नाऽऽसन् ? ॥ १ ॥ श्लाघ्यान्तरस्य विरहेण गिरां कवीन्द्राः । स्तोत्रणि ते जिन ! गृणन्ति शिवावहानि । यस्मात् तव स्तवनसम्भविना महिम्ना . प्राप्तिः शिवस्य कृतिनां कियती फलाप्तिः ॥ २ ॥ तेषां गिरः खलु गिरः कविचक्रवाले ते नाम बिभ्रति यशःकुसुमावतंसम् । येषां मुखाम्बुरुहमञ्चति वास्तवाय वाग्देवता भगवती भवतः स्तवाय ॥ ३ ॥ ये त्वां स्तुवन्ति परदूषणघोषणाभि स्ते जाड्यकरमलदृश: परमार्थवन्ध्याः । एषापि कापि विपणिर्ननु मूढतायाः सत्तां यदन्यविषयां सहतेऽन्तरात्मा ॥ ४ ॥ तस्मै नमः.सकलकालशिरोवतंस लक्ष्मीगृहाय समयाय महोदयाय । ... यत्र त्रिलोकविभवप्रभवैकमित्रे चेतस्तवाज्रिघ्रकमलोत्सुकमाविरस्ति ॥ ५ ॥ श्रेयो निमित्तमपि ये गृहमेधिनोऽपि धावन्ति वैभवभराय धनोद्भवाय । निःसङ्गतैकशरणानि पदं शरण्य ! स्वप्नेऽपि तेषु कृतवन्ति न ते वचांसि ॥ ६ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy