SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मितः ] श्रीमुनिसुव्रतदेवस्तवः . (१३३) mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm प्रगुणनायकतां स्वयमेव तां दधदशेषितदुष्कृतवैकृतः । सकललोकशिरःकृतसंश्रयः श्रयति यो नवमौक्तिकयष्टिताम् ।। २६ ॥ न धरणीसुविरागमुपैति यः किल नवालिसमोनतविग्रहः । अरिपुरीत्यधिक प्रमनःस्थितिः प्रकटयत्यहरीशमहोबलम् ॥ २७ ॥ न चरणाश्रयणं भरतो दधौ स्फुरति किञ्चन रौरवनिग्रहम् । मनसि यस्य गुरुश्च नगाधिभूर्वसति नूतनरागकलाश्रितः ॥२९॥ युग्मम् विषमहारि विजृम्भितमीयुषः श्रवणवीक्षणतुल्यलसदृशः । फणपतेर्न च यस्य कलान्तरं किमपि भोगपरित्यजनं विना ॥२९॥ शुचिदशाश्रयदीप्रमहोदयः कुशलभासितसन्ततनामभृत् । दधदजस्रनिरञ्जनतां न यः स्फुरति कोऽपि नकः खलु दीपकः ॥३०॥ जगति पूर्वविधेर्विनियोगजं विधिनतान्ध्यगलत्तनुतादिकम् । सकलमेव विलुप्यति यः क्षणादभिनवः शिवसृष्टकरः सताम् ॥३१॥ इत्थङ्कारमकारणैकसुहृदं विश्वस्य पार्थ जिनं तं स्तोतुस्त्रिजगद्विलक्षणगुणग्रामाभिरामाकृतिम् । यः कश्चिद्विकचीबभूव बत मे भाग्यातिरेकस्ततः स्तल्लोकव्यतिरिक्तमुक्तियुवतिप्रेमप्रमोदोत्सवः ॥ ३२ ॥ [५३] श्रीमुनिसुव्रतदेवस्तवः । देवस्तनोतु हरितोत्पलकोंशकान्ति: " शान्तिं श्रियं च परमां मुनिसुव्रतो कः ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy