SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ( १३२) जैनस्तोत्रसन्दोहे । श्रीरामचन्द्र प्रमदयनमृतेन कृताञ्जलीन् गततृषः शिखरिश्रियमावहन् । अकलुषः कमठाम्बुदवृष्टिभिस्त्वभिनवः किल यः कमलाकरः॥१५॥ प्रकटयन्नवनस्थितिपाटवं भुवि कलां कलयनिह हारिणीम् । सकलकामसमुद्भवसौहृदः श्रयति यो नवकेसरिणः श्रियम् ॥१६॥ दधदहो विबुधाश्रितपादतां भुजगराजिविराजितमौलिताम् । किमपि यः स्वगुणैर्भुवनाद्भुतैर्दिविषदामचलादतिरिच्यते ॥ १७ ॥ सुमनसामधिगम्य तयाऽत्र यः श्रयति नन्दनतां कमलाचले। परमयं शतधारिभिदेलिमाद्भुतमहाबलवैभवशोभितः ॥ १८ ॥ विबुधकुञ्जरतां विततान यः कनकसानुमति स्थितिमाश्रितः । विजयिनागकृतोचरणः परं शितितनुः सततं विमदोदयः ॥ १९॥ शिरसि बिभ्रदहीन्द्रनिभाजटापटलमिष्टफलस्फुटपादभृत् ॥ तनुकलां कलयन्नभसः सखीमभिनवः खलु यः सुरपादपः ॥२०॥ भुवनतापकृदक्षणिकोन्नतिर्भुवि विकीर्णरजाक्षतकन्दलः । अपर एव विनीलघनश्रुतिर्य इह भाति गिरौ विहितस्थितिः ॥२१॥ अहरसत्कवृषोदयमादधद् भृशमरालवयो (१) नुदयन्मदः । वहति मानसमप्यजलाशयं स्फटिकशैलयशा नव एव यः ॥ २२ ॥ असमरत्नजिघृक्षुजनं नयनहह कन्दरमीरितदुर्गतिः । वहति सद्गुणरोहणतां परं य इह नागवरश्रियमाश्रयत् ॥ २३ ॥ निजशिरस्यहिमक्षयमावहन्नपि निवर्तितवेपथुरङ्गिनाम् । य इह नव्यशिवोदयकृद्गिरीश्वरतया जगति स्पृशति प्रथाम् ॥ २४ ॥ स्फुरदगस्तिमिताद्भुतवैभवः परमशङ्गगणेन च न श्रितः । . कमठभृङ्गभृदस्खलितक्षमस्त्वजनि यो नव एव महोदधिः २५ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy