SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मिता ] व्यतिरेकद्वात्रिंशिका ( १३१ ) अकृत तलवनाश्रयि कर्म यः स्फुटमपातकपङ्क कलङ्कितः । त्रिजगदुद्धरणोद्वरया धुरा नववराहतया विदितः क्षितौ ॥ ४ ॥ परमहंस मनोहरविग्रहः शुचिचतुर्वदनः कमलालयः । समधितिष्ठति यः परमेष्ठितां वहति नैव तु वेदसमुन्नतिम् ॥५॥ हरिमनोहरचित्र चरित्र भूर्जगति बिभ्रदनन्स इति श्रुतिम् । भजति यः कलितं बलडम्बरं कमपि नैष तु काममपालयन् ॥ ६ ॥ परशुभासितनीलतनुद्युतिश्चरणसंश्रयसाधुवृपस्थितिः । वहति विघ्नविनायकतां परं सकलनागशिराः खलु यः श्रुतः ॥ ७॥ असमशक्तिरनङ्गशरज्वरानुपहतः स्फुटपावकजन्मभृत् । जगति योऽत्र बभार कुमारतामयमहो स्वयमेव तु तारकः ॥ ८ ॥ क्षणविनश्वरविश्वमय स्थितिं व्यवहरन् विदितः खलु मारजित् । भजति बुद्धकलां स्वयमेव यः प्रथयति स्म पुनर्न निरात्मताम् ॥ ९ ॥ जितमनस्कतया सुसमाधितां दधदपि प्रथयन् वपुषः क्षयम् । परमयोगरहस्य निवासभूरितरनाथविलक्षण एव यः ॥ १० ॥ निखिलविश्वगशाश्वतरूपभृन्निजगुणोद्यतशब्द मनोहरः ः । भजति काञ्चन योsभिनवाम्बरश्रियमनश्वरतारकशीतगुः ॥ ११ ॥ अनुपलभ्यखमण्डलडम्बरः सकलतारकवैभवभासुरः । य इह कलानिधिकौशलो नवमहः स्फुरितं तुलयत्यलम् ॥१२॥ न कमलं विकचं कुरुते गवां व्यतिकरैर्विकिरंस्तमसस्ततिम् । मुदितकौशिकसंश्रितपादतां वहति योऽत्र नवीनदिवाकरः ॥ १३ ॥ न वियति स्थितिवल्गितमादधे न खलु कैरवबोधकृदक्षि यः । क्षणदयाधिगतप्रणयो नवामृतकरः कलिताभ्युदयो नवः ॥ १४ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy