SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ (१३०) mmmmmwwwwwwwwwwwmmmmmmmmmmmwwwwwmarmer जैनस्तोत्रसन्दोहे [श्रीरामचन्द्रकालकूटमपि सत्यमुत्कटं यत्प्रभाववशतः सुधायते । विश्ववल्गदघमृत्युहारिणो नेदमद्भुतममुष्य वा प्रभोः ॥ २९ ॥ येन सान्द्रकरुणाईचेतसा वैभवाभ्युदयभङ्गिसङ्गिना । उद्धृतं विपदुदन्वतो जगद् विश्वदुर्गतिहृतः श्रियः सताम् ॥ ३० ॥ यस्य संस्मरणमीक्षणं गुणोत्कीर्तनं स्नपनमर्चनं च तत् । पूरयत्यसुमतां मनोरथान् किं न वा भगवतः शुभावहम् ॥ ३१ ॥ एवं विशेषकमवाप्य जिनं सुवृत्त कार्तस्वरक्षितिभृताखिललोकलक्ष्मीः । त्यक्तान्यवीक्षणरसा विदधे क्षणेन क्षोभावहो भवति वा तिलकप्रयोगः ॥ ३२॥ [५२ ] पार्श्वनाथस्य व्यतिरेकद्वात्रिंशिका। यदिह देवकदम्बकतः स्वकैर्गुणगणैस्त्वमसि व्यतिरेकभूः । तदवतंसितशारदया दयानिलय ! तत्प्रयतोऽस्मि तव स्तवे ॥१॥ स भवताद् भवतां भवतान्तिहृद् मुजगभूषणभूः परमेश्वरः । . जगति पूरितकाममहोत्सवः कनकसानुगतो नवशङ्करः ॥२॥ स्फुटसुदर्शननन्दकविक्रमः सकलविश्वनिषेव्यमहोदरः । इह बभौ भुवि यः पुरुषोत्तमः कमठकीर्तिसहस्तु न केवलम् ॥३॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy