________________
सूरिविरचिता ]. अर्थान्तरन्यासद्वात्रिंशिका
(१२९)
यः स्वयं दधदनवरात्मतामिष्टसिद्धिघटनामिषुः सताम् । अध्युवास कनकाद्रिचूलिकां शैलवासरतयो हि योगिनः ॥ १८॥ नेत्रयोः प्रणयितामुपेत्य यः सज्जकज्जलसगोत्रगात्रकः । दृष्टिमाशु तनुते निरञ्जनां सृष्टिरेव हि नवा महात्मनाम् ॥ १९ ॥ यस्य न स्खलति तत् कचिन्महः स्फूर्जितं नृपशतैर्नतात्मनः । सौजसः स्फुटमधृष्यतेजसः स्युर्यतः शिरसि दुर्गशालिनः ॥२०॥ बिभ्रता भृशमताड्यजीवतां येन धर्मकलयात्र दुष्कलौ ।
आन्तरारिविजयः कृतः सतां चातुरी जयति काचिदद्भुता ॥२१॥ निर्व्यपेक्षहृदयो दयानिधिः कल्पयत्युपकृति जनेषु यः । कारणेन किल योपकारिता सा हि नूनमथवा स्वविक्रयः ॥ २२ ॥ आग्रहो जनयितुं प्रभावतां यस्य काश्चन कलामुपेयुषः। इन्दुसुन्दरयशः फलेनहिर्निवृति दिशति वा स्थितिः सताम् ॥ २३ ॥ यं प्रभुं समधिगम्य धारयत्युच्चकैः कनकभूधरः शिरः । कः क्षितौ सकलकाघ्रितप्रदं प्राप्य रत्नमथवा न दृप्यति ? ॥२४॥ यत्पदप्रणयिनां नृणामगुः सिद्धिपद्धतिमहो मनोरथाः । येन गौरवभृतामुपासनं कामधुकसुरभितो न भिद्यते ॥ २५ ॥ यस्य रूपमनघं परं किमप्यस्ति कः कलयितुं प्रगल्भधीः । एवमेव सकलातिवर्ति वा वृत्तमद्भुतरसाय कल्पते ॥ २६ ॥ यः सुवर्णगिरिविस्फुरत्यदस्तत्प्रकाशयति वृत्तमात्मनः । कस्य गोप्रकटितप्रभावतः श्लोकसिद्धिदयं न याति वा ! ॥२७॥ भारती यदुपदेशपेशलामर्थसिद्धिमनुधावति ध्रुवम् । काश्चनाचलकलामुपेयुषां सिद्धयो हि वृषलीसमाः सताम् ॥ २८ ॥