________________
-
~
( १२८ ) जैनस्तोत्रसन्दाहे [श्रारामचन्द्रयश्चकार करुणाचणं मनो दुर्गति स कमठस्तदप्यगात् । सज्जनेषु सहनेष्वपि ध्रुवं दुष्कृतेन पतयालवः खलाः ॥७॥ यो वितृष्णहृदयः प्रकाशयन् पीतशान्तरससुस्थतां स्वयम् । देहिनां भववनभ्रमक्लमं चिक्षिपे चरितमद्भुतं सताम् ॥८॥ येन वाञ्छितफलैः समन्ततो दर्शनान्तरजुषोऽपि योजिताः । अत्युदारचरितोज्ज्वलात्मनां नास्ति वा स्वपरयोरिहान्तरम् ॥९॥ येन तैः स्वचरितैरलित्विषा सौरभं किमपि हेमभूभृतः । ख्याप्यते प्रगटमेव किन्तु तद् यन्न शक्यमिह वा कलावताम्॥१०॥ यः कषायकलुषाभिषङ्गिनां क्षालयन् गलितरागसङ्गतिः । मुक्तिरक्तहृदयश्चिरं बभौ को नु वेत्ति चरितं महात्मनाम् ॥११॥ तत्त्वपावन ! मुनीश ! दर्शनादन्तिजन्मनि मनस्यबोधि याः । सङ्गमाद्धि महतां महात्मनां चित्कला कलति किं कुतूहलम् ॥१२॥ रागिणां किल रसायनं तनूद्वर्त्तनं तदपि यस्य जायते । सर्वमेव जगतां हिताय वा कल्पते परमसिद्धिशालिनाम् ॥१३॥ याच्नया भवतु सन्तनोति यश्चित्त एव नहि तं समीहितम् । लाघवाय यदमुष्य लधनं कोऽपि हन्त महतां महाग्रहः ? ॥१४॥ मौलिमण्डलविलासमण्डनं दर्शयन् शतिफणीशमुत्फणम् । सन्तनोत्यहिभयज्वरक्षयं चित्रमेव चरितं महात्मनाम् ॥ १६ ॥ वर्तमानमपि भूतभावि वा दूरवर्त्यपि समीपवर्ति वा । योऽवलोकयति विश्ववल्गितं कापि दृष्टिरपरैव योगिनाम् ॥ १६ ॥ एक एव जगतां मनस्सु यः कृष्णमूर्तिरवदातपुण्यभूः । भोगिकेतुभिरगम्यविग्रहो योगिनो हि विपरीतवृत्तयः ॥ १७ ॥