________________
श्रीरामचन्द्रसूरिकृता]
अपह्नतिद्वात्रिंशिका
(१२७ )
annammannannammnnnnnnnnnnnnn
गगनपुलिनप्रेल ज्योतिर्नखोत्करतारका
तव तनुरियं श्यामा वामातनूद्भव ! भासते । शुचिरदरुचि पा व्याख्याविधाविह केवला
ऽभिनवशशिनः सच्चक्राणा मुदेऽपि तु कौमुदी ॥३२॥
[५१ ] श्रीपार्श्वनाथस्य। अर्थान्तरन्यासद्वात्रिंशिका
धर्मार्थकामात्मकमीश ! ते गिरा निर्बाधमर्थत्रितयं प्रसाधयन् । अर्थान्तरन्यासविधि समीहते सोऽयं जनस्तावकभूमिकातिथिः ॥१॥ संस्तुतौ तव जिनेश ! नेशते तेऽपि वन्ध्यधिषणाः पुरन्दराः । तत्र सादरमतिस्तदप्यहं कोऽपि वा स्खलति नो मनोरथः ॥२॥ अश्वसेनतनुभूः स भूयते यः स्वयं फणिफणोष्णवारणम् । बिभ्रदन्तमनयजगत्त्रयी तापमद्भुतगुणा हि सज्जनाः ॥३॥ येन काञ्चनगिरौ विनिर्ममे शासनोन्नतिवधूकरग्रहः । युक्तमेतदथवा कुमारतां बिभ्रतां खलु भुजङ्गसङ्गिनाम् ॥४॥ रक्षितो विषधरः कृपालुना येन तापसहुतासविह्वलः । आपदं गतवति द्विजिह्वकेऽप्युत्तमाः स्युरुपकारतत्पराः ॥५॥ यत्प्रसादमुदितस्तदा फणी प्राप नागनगराधिराजताम् । उत्तमेषु नियमेन रागिणां सम्पदः करतले गतापदः ॥६॥