________________
( १२६ )
जैनस्तोत्रसन्दोहे
[ पण्डितावतंस
अमीन नम्रावनिशासिनां शिरःस्रजः पुरस्ते पतयालवोऽलयः । अपि त्वौ पादनखांशुताडिता गलत्यहो पापमलस्य मालिका ॥२१॥ इदं न ते नीलतनूरुचामुपर्युदश्चि दन्तोज्ज्वलरोचिरासदः । जगत्त्रयी मङ्गलवल्लिकाननं चकास्त्यदः किन्तु लसत्प्रसूनकम् ॥२२॥ इयं न ताम्राङ्घिनखांशुमञ्जरी जिनेश ! लेश्यापि तु भाति तैजसी । विनम्रदुष्कर्मदिधक्षया तव प्रसन्नपद्भ्यां झटिति स्फुटीकृता ||२३|| इदं न मौलौ धरणोरगेश्वरस्फुरत्फणालीफलकं जगत्पते ! | तवापि तु ध्यानसुधाम्बुपायिनः करातपत्रं भुवनश्रिया धृतम् ||२४|| अयं न गाङ्गेयगिरिस्त्वमप्यसौ न चेह नीलीदलसोदरद्युतिः । अदस्त्रिलोकाभरणैकपङ्कजं हिरण्मयं किन्तु सनीलषट्पदम् ॥२५॥ नमस्यतां भालतलेषु नैष ते जपासखः पादनखत्विषां चयः । पदं ददत्याः सुकृतश्रियस्त्विदं विराजते यावकरागवल्गितम् ॥२६॥ अयं न नीलोपलशेखरायितं त्वदीयमूर्त्तिस्तपनीयभूधरः । जगत्सु कल्याणनिपः स्फुरत्यपि त्वसौ वतंसार्पितनीलपल्लवः ॥२७॥ इयं न ते पादनखांशुमण्डली सतां ललाटाङ्गणकुक्कुमच्छटा । उदेष्यतः पुण्यरवेरपि त्वसावबन्ध्यसन्ध्याभ्रकदम्बडम्बरः ||२८|| फणीन्द्ररत्नाश्चितमेचकद्युतामिदं न ते वृन्दमुदेति देहतः । नभः कृतावासमपि त्वदस्तडित्वतां कदम्बं कमठाम्बुभृज्जयात् ॥ २९ ॥ यमीष्टसिद्धेर्गृहमिन्द्रनीलजं न ते विनीलाङ्गरुचामयं चयः । इदं त्वया किन्तु वियन्नखच्छविच्छलात् स्वतेजः प्रसराय कल्पितम् ॥ ३० ॥ विभाति भोगीन्द्रफणामणिप्रभा क्षमाभृतामीश ! न ते शिरस्यसौ । अपि त्वयं सिद्धिवधूविभूषणोपयोग भूर्गैरिकधातुसञ्चयम् ॥३१॥