________________
श्रीरामचन्द्रसूरिकृता] अपहृतिद्वात्रिंशिका ( १२५ )
mmmmmmmmmm.wwwwwwww अशोषिताशेषरुजस्तव प्रभो ! न धर्मचक्रं पुरतः स्फुरत्यदः । स्वकुष्ठनिष्ठापननिष्टुराशया समाश्रितः किन्त्वयमीश्वरस्त्विषाम् ॥१०॥ अयं जिनानामधिराज ! राजते न ते जितारिव्रज ! वज्रभृद्ध्वजः । असौ स्फुटं किन्त्वतिवृद्धिविश्वगत्वदीयकीर्तेरवलम्बयष्टिका ॥११॥ सुवर्णशैलः किल नायमत्र ते जिनेन्द्र ! नैतद् भवनं च निर्मलम् । असौ कुमारक्षितिभृयशोङ्करः शुभैककन्दाद्भु(दु)दगादपि त्वतः॥१२॥ इयं न ते पादनखोज्ज्वलद्युतिर्विनम्रभालेष्वभिषङ्गमङ्गति ।। तदाश्रया पुण्यलिपेरपि त्वदः प्रमार्जनो स्वलमम्बु वल्गति ॥१३॥ तव प्रभाचक्रमुदश्चिमेचकं चकास्ति नैतन्मणिमात्रपनगम् । तनुं दधानः क्षणदामयि त्विदं विभाति सप्तर्षिविभूषितं नमः ॥१४॥ स एव रोचिष्णुकडारकेसरच्छटाकटप्रा तप (तव) मौलिपृष्ठतः । नृसिंह ! नैदं तु महःकदम्बकं विडम्बयद् बिम्बमशीतरोचिषः ॥१५॥ इदं न फुल्लत्फणभृत्फणामणीमहस्तवोच्चैः शमिनामधीश्वर ! । समुल्लसद्ध्यानसुधाभयात् त्वहेर्विषाचिरेतन्मिषतः पलायितम् ॥१६॥ इदं तव ज्योतिरुदेति विष्टपत्रयोदव्यापि जिनेश ! न त्वदः । अहीन्द्ररत्नाक्षिकरस्फुरन्नखैरुपर्यधोमध्यविकस्वरं महः ॥१७॥ न रक्तकङ्केल्लिरसौ चकास्ति ते निषेवते त्वामपि नृत्वगुप्तये । अशेषषड्जीवनिकायतायिनं मुनीश ! रागः स वनस्पतीभवन् ॥१८॥ जिन ! द्विजानां तव देशनावनावमी न कान्तिस्तबकाश्चकासति । विमुक्तिकान्ताभरणाय किन्त्वयं कृपापयःसागरमौक्तिकोत्करः ॥१९॥ न मूर्ति भूषा प्रणयी फणीश्वरं क्षमाभृतामीश ! बिभर्षि किं पुनः । अमुं दधानेन कलापिना त्वया शिवं विरोधप्रशमा प्रकाश्यते ॥२०॥