________________
( १२४ )
[ पण्डितावतंस
जैनस्तोत्रसन्दोहे
[ ५० ] पण्डितावतंसश्रीरामचन्द्रसूरिकृता
अपह्नुतिद्वात्रिंशिका ।
भवद्गुणानां स्तुतये जगद्गुरो ! कृतादरः सोऽयमपह्नुतौ जनः । अशस्तमप्याश्रितकर्म मन्यते यतः प्रसन्नः शुभमेव सुप्रभः || १ || सितं न ते सम हिरण्मयाचले चकास्त्यदः पन्नगसेव्य ! किन्त्वसौ । फणीश्वरः क्ष्माभरभङ्गुरस्थितिस्तवाश्रिते वोपिकया रसातलात् ॥२॥ जिनेश ! नेदं सदनं तवेन्दवप्रभावभासि प्रतिभाति किं पुनः । वृषासिंहस्य विपद्विपावलीविपाटनस्फाटिकपञ्जरं परम् ॥३॥ इदं न ते नीलतनुच्छविच्छटाकदम्बकं किन्तु फणीन्द्रकेतन ! त्वया त्रिलोकीविपदां विपत्कृते तरङ्गितं कालभुजङ्गमण्डलम् ||४॥ अदः समुन्मीलितनीलमङ्गतः प्रभोमिंजालं त्रिजगत्पते ! न ते । अपि त्वसौ स्फूर्त्तिमियर्ति चापलच्छिदे श्रियामायस शृङ्खलाबलिः ॥५॥ सरोजसौन्दर्यजुषोस्तवोन्मिषत्यसौ मुनीश ! क्रमयोर्न शोणिमा । प्रसह्य रागः स बहिष्कृतो हृदस्त्वदङ्घ्रिसेवामपि तु प्रपन्नवान् ॥६॥ निरायतात्मा न तवोपरि स्फुरत्ययं भुजङ्गाधिपनि (ति) गुणाधिकः । अपि त्वसौ रज्जुरजीर्णरागया स्वधाम नेतुं मुमुचे शिवश्रिया ||७|| क्षमाभृतां धुर्य ! तवेदमुद्ययौ तदा न शोणाहिफणामणीमहः । अभूदयं किन्त्वरुणोदयः पुरा स्फुरिष्यतो ब्रह्ममयांशुमालिनः ॥ ८॥ तवायमाभाति भुजङ्गपुङ्गवः प्रशान्तमूर्द्धन्य ! न मूर्ध्नि किन्त्वियम् । तपोऽधिकं त्वां भुवनाभयाचलं विचिन्त्य भेजे कमठाजटावली ||९||