SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwww श्रीपालविरचितम्] चतुर्विंशतिजिनस्तवनम् (१२३) श्रीसुव्रत ! व्यधार्षी:स्म महीनतरसं यमम् । अजैषीस्त्वं जनानन्तुमहीनतरसंयमम् ॥ २१ ॥ नमे ! यस्मिन्नतोऽस्मि त्वाममानं दमयोगतः । स एव समयः कामं ममाऽऽनन्दमयो गतः ॥ २२ ॥ ताः समन्नाक्षिपन्नेमे ! कमनीयतमा नवम् । यासां दृशाऽपि नानङ्गकमनीयत मानवम् ॥ २३ ॥ पार्श्वनाथ ! जगाम त्वां कोपमातङ्गतापदम् । यः पुपोष तपःसिंह कोऽपमातङ्गतापदम् ॥ २४ ॥ जातलक्ष्मी तमो हत्तुं वर्द्धमान ! प्रभो ! दयाम् । देहिमद्य विधेहि त्वं वर्द्धमानप्रभोदयाम् ॥ २५ ॥ शुचिर्जिनाली वः पायादपवित्रा समानसा । योऽस्नाद्यस्यास्तमोग्गोसा (2) दपवित्रा समानसा ॥२६॥ जिनागमं तमोध्वंसे रविकल्पमपापदम् । नमाम्यममांकमलै रविकल्पमपापदम् ॥ २७ ॥ त्वया वाग्देवि ! तत्कार्य महतोद्यमयाऽऽदरात् । यथा मोहमयां तार्य महतोद्यमयादरात् ॥ २८ ॥ इति सुमनसः श्रीपालकविरचितनयः समस्तजिनपतयः । अविनाशिज्ञानदृशो दिशन्तु वः ........... ॥ २९ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy