________________
जैनस्तोत्र सन्दोहे
[ कविचक्रवर्ति
सुविधे ! कैर्वचोमार्ग विभवस्तव नीयताम् । त्वय्येव मन्यते स्वर्गविभवः स्तवनीयताम् ॥ १० ॥ त्वयि निर्वृतिदानाय शीतले ! सविभावसौ । सिक्तोऽस्मि सकलक्केशशीतलेशविभावसौ ॥ ११ ॥ तं श्रेयांसं स्तुवे भक्त्या कामं केवलिनामिनम् । यस्मादन्ये न गृह्णन्ति कामं के वलिनामिनम् ॥ १२ ॥ वासुपूज्य ! विभो ! स्तौमि भवन्तं सत्वराशयः । यत्प्रासादात्तरन्त्येव भवं तं सत्वराशयः ॥ १३ ॥ यं स्मृत्वाऽपि लभन्ते स्म देहिनः सुरसम्पदम् । स त्वं विमल ! निर्दोषं देहि नः सुरसं पदम् ॥ १४ ॥ अनन्तजित् ! तव श्रेयः सुतरामापदश्चकः ।
त्वामीशं प्राप्य नावैति सुतरामापदं च कः ? ॥ १५॥ केषां नाऽभूचमत्कारो धर्मराज ! सतामसौ । विकारौ यत् त्वया ध्वस्तौ धर्म ! राजसतामसौ ॥ १६ ॥ शान्तं यन्नागमो दोषविकलं कतमो नयः । तद्वचस्ते स किं स्तौति विकलङ्कतमो न यः ॥ १७ ॥ तेजः कुन्थो ! भवोत्तारकरालम्ब ! तवारिभिः । कूर्चाग्नेरिव न ध्वस्तं करालं बत वारिभिः ॥ १८ ॥ अर ! त्वदुपमानम्य विभवोदधिरेकदा |
जन (नः) तीर्णोऽखिलकर्मविभवो दधिरेकदा ॥ १९ ॥ मल्लिदेव ! दयारूपममानं ते नवं धनम् ।
त्वया कर्माख्यमुच्छेद्यममानं तेन बन्धनम् ॥ २० ॥
( १२२ )