________________
wwwwwww
सरिप्रणीतम्] चतुर्विंशतिजिनस्तवनम् (१२१ )
[४९ ] कविचक्रवर्तिश्रीपालविरचितं श्रीचतुर्विंशतिजिनस्तवनम्
भक्त्या सर्वजिनश्रेणिरसंसारमहामया । स्तोतुमारभ्यते बद्धरसं सारमहा मया ॥ १ ॥ श्रीनाभेय ! भवान् पुंसामलङ्कारमणीयते । 'अभूत् ते चित्तमाक्रष्टुमलं का रमणी यते ! ॥ २ ॥ समुलचितसंसारकान्तार ! तरसाऽजित !। मां पुनीहि जगन्नाथ ! कान्तारतरसाजित ! ॥३॥ निरस्तः केन मोहस्त्वां विना शम्भव! दारुणः । तेनासि दहनीकत्तुं विनाशं भवदारुणः ॥ ४ ॥ अभिनन्दन ! युष्मासु सदाचरणधीरता। जेतुमेनांसि नान्येषां सदा च रणधीरता ॥ ५ ॥ श्रीः पुंसां सुमते ! ध्वस्तकलितापाय ! दक्षता। तद्भक्तेस्तन पापेषु कलिता पापदक्षता ॥६॥ पद्मप्रभ ! सिषेवे त्वां मुक्ताहारमुदारता । त्वयि लोकत्रयी मुक्तिमुक्ताहार ! मुदा रता ॥ ७॥ सुपार्श्व ! देशनायां ते चतुराननकोमलाः । । गिरः श्रुत्वा न तुष्टाव चतुरानन ! कोऽमलाः ॥ ८॥ चन्द्रप्रभ ! भवानेव सत्तमः सप्रभावताम् । यो धत्ते चैव सञ्जतुं सत्तमः सप्रभावताम् ॥ ९॥