SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्रसन्दोहे सबिन्दु लक्ष्मीं चान्ययुगजलधामाभिधमहो परं तत्त्वं नीचैर्जनवशकरं नाम तदपि ॥ ५ ॥ चतुर्थी प्राग्वान्तमथ हुतभुक्तृप्तिविचनं वरैर्वर्णे रेभिर्दशसहितषड्भिः परिगतं परिज्ञातं तत्वं जयतिकलिकुंडाख्यममलं || ६ | तदित्थं सम्पूर्ण गुरुजनगिरा दोषहरणम् पवित्रे पात्रे च स्फुरदमलसौराष्ट्रकमये शुचिश्रीखण्डेन प्रचुरतरसौभाग्यगुणिना । त्रिमुष्टिप्रामाण्यैः कुशसहितदर्भैर्विलसितं क्षणादेतत् तत्त्वं भुवि विजयते स्वास्थ्यजनकम् ॥ ७ ॥ अशक्तं शाकिन्याः शिरसि निहितं शङ्कशकलं ( १२० ) [ श्रीमुनिचन्द्र कृतं लीलामात्रान्निखिलपरविद्याविदलनम् । विशीर्णा चेदानीं जगति ननु दाहज्वरकथा पुरः. साक्षाद् दृष्टे जयति कलिकुण्डे भगवति ॥ ८ ॥ प्रचण्डो दण्डोऽयं सपदि कलिकुण्डस्य सहसा भवेद् भूतादीनां प्रकटमिह दण्डो निरवधिः । असावेव त्राणं भवति नियतं मान्त्रिकतते रपि क्षुद्रार्तायाः कचिदपि कथंचिद्विधिवशात् ॥ ९ ॥ इति श्रीमान् पार्श्वः प्रभुरखिलकल्याणवसतिः समुद्रो विद्यानामतिशयवतीनां निरुपमः । स्थितः सिद्धिस्थाने महितमुनिचन्द्रप्रकटितस्फुरन्मन्त्रात्मा मे शमयतु समग्रं भवभयम् ॥ १० ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy