SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीपार्श्वनाथस्तवनम् (११७) षट्कोणयन्त्रमध्ये जन्मजरामृत्युनाशनं पार्श्वम् । पुनरुक्त्या च प्रणवं ह्रींकारं दोषविनिकारम् ॥ ३ ॥ मायाबीजं हूं ह्रः सनाथमथ यः समस्तसुखदक्षः । किश्च त्रैलोक्यसखं ध्वनिसारं फट् फट् स्वाहा ॥ ४ ॥ एकान्ते सुदृढमना ऐन्द्रीहरिदभिमुखः पवित्राङ्गः । श्रीपार्श्वनाथचरणाम्बुजसेवामधुकरः सुकृती ॥ ५ ॥ ध्यानविधौ निष्णातो ब्रह्मस्थः सद्गुरूपदेशेन । .. यो ध्यायति त्रिसन्ध्यं तस्याऽवन्ध्यो भवेदेषः ॥ ६ ॥ .: नारिन हरिन करी नाऽहिर्नाग्निर्न सागरो न गदः । । न क्षमापतिर्न दस्युर्न रुजा नाकालमरणमपि ॥ ७ ॥ तस्य भयाय प्रभवति हृदये जागर्ति यस्य पार्श्वेशः। पवनेरिताम्बुदा इव किन्त्वेते झटिति विघटन्ते ॥ ८ ॥ दुष्टसुरशाकिनीग्रहमुद्गलवेतालराक्षसप्रमुखाः । विलुठन्ति किङ्करा इव पदयोः पार्श्वक्रमध्यातुः ॥ ९ ॥ स कविर्वादी वैद्यो दैवज्ञो मन्त्रतन्त्रनिष्णातः । सकलकलानां निलयो भवति हृदि स्मरति यः पार्श्वम् ॥१०॥ एवं कमठाधिष्ठितसुमन्त्रगर्भ जिनेन्द्रपार्श्वस्य ।। __ यः पठति स्तवमनिशं स कविकुलप्रमतया घटते ॥ ११ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy