________________
( ९२ )
जैनस्तोत्रसन्दोहे
यश्च सुचिरं पृथिव्यां मिथ्यात्वान्धं विबोध्य भव्यजनम् । ठाणं जम्मणजरमरणरोगपरिवज्जियं पत्तो ॥ ९ ॥ तं नमत नम्रशतमखमणिमुकुटविटङ्कघृष्ट चरणयुगम् । भुवणस्स वि बन्धणपालणक्खमं वद्धमाणजिणं ॥ १० ॥
[ ३२ ] श्रीरामचन्द्रसूरि सन्दब्धः श्रीआदिदेवस्तवः |
[ श्रीरामचन्द्र
जातनृपमुत्थितानलमधिगतशिल्पं प्ररूढधर्मपथम् ।
जो पढमं चिअ भयवं कथवं अवयरिय भरहमिणम् ॥ १ ॥ अविकल्पितान्यपि फलान्यवलोक्य जनस्य यं प्रयच्छन्तम् । "ईसाए पत्तखमावि कप्पतरुणी समुच्छिन्ना ॥ २॥ विषयग्राममशेषं दोषमयं प्रत्यहं कथयतापि । जेण सयं चि रइआ विसयवई भारही पुहवी ॥ ३ ॥ यस्मै विगतस्मयविस्मयाय कृतकर्म्मवर्म्मभेदाय | * अपवग्गलग्गमइणो नमंति सुरअसुरनरवइणो ॥ ४ ॥
छाया
१ यः प्रथमं खलु भगवान् कृतवान् अवतीर्य भारतमिदम् ॥ २ ईर्ष्यया प्रातक्षमा अपि कल्पतरवः समुच्छिन्नाः ॥ ३ येन स्वयं किल विरचिता विषयवती भारती पृथ्वी ॥ * अपवर्गमार्गलग्नमतयो नमन्ति सुरासुरनरपतयः ॥