SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ गणिप्रणीता] चतुर्विंशतिजिनस्तुतिः (७५)... श्रीनेमे ! प्रीतिराप्तेन ! भवता मेघवारिणा । चातकस्येव वक्त्रान्तर्भवता मेघवारिणा ॥ २२ ॥ यस्त्वां पार्श्वजिन ! स्तौति परमानन्दभावितः । तस्मिन् नित्योदिता रागं परमानन्द भाऽवितः ! ॥ २३ ॥ त्वया जितान्यदेवर्द्धिर्वर्द्धमानप्रभावतः । त्वयि देवाधिदेवत्वं वर्द्धमान ! प्रभावतः ॥ २४ ।। जिन ! त्वद्वदने दृष्टे रजनीश्वरहारिणि । प्रीतिर्मम तमोराशेरजनीश्वर ! हारिणि ॥ २५ ॥ स्वर्णाञ्जनजपाब्जेन्दुरुचिराजितविग्रहाः । देयासुर्वः श्रियः सार्वा रुचिरा जितविग्रहाः ॥ २६ ॥ अवचूरिः 'क्रमाम्बुजं०' सुगमः। परं अघवारिणा भवता आप्तेन-प्राप्तेन-मे-मम प्रीतिरस्ति । शेषं स्पष्टम् ॥ २० ॥ 'श्रीनेमे:०' पूर्वार्द्ध स्पष्टम् ॥२२॥ हे अवितः !। तस्मिन् नित्यो दिता भा-प्रभा- च केवलज्ञानरूपा। परं-प्रकृष्टं राग-स्नेहम् । आनन्द-बबन्ध । 'अदु बन्धने' ॥ २३ ॥ वर्द्धमानो यः प्रभावः तस्मात् । अतो हेतोः त्वयि प्रभौ हे. वर्द्धमान ! देवाधिदेवत्वमस्तीति योगः ॥२४॥ रजनीश्वर:-चन्द्रः तद्वदू हारिणि-मनोज्ञे । हे ईश्वर !-स्वामिन् ! मे-मम । प्रोतिरजनि । तमोराशेर्हारिणि-विनाशिनि ॥२५॥ विग्रहः-देहो रणश्च । श्रियः कीदृशीः ? रुचिराः-मनोज्ञाः॥२६॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy