________________
(७४)
जैनस्तोत्रसन्दोहे
[श्रीचारित्ररत्न
कुन्थुनाथ ! जगन्मा-श्रीनन्दनजयेश्वर । असीमगुणलक्ष्मीणां श्रीनन्दन ! जयेश्वर ! ॥ १७ ॥ चकृयांस्तव यः सेवां परमादरसङ्गतः । परं पदं स दुष्कर्मोपरमादरसं गतः ॥ १८ ॥ दुरन्तदुरिताम्भोधिकुम्भोद्भव ! भवापदम् । हत्वा तत्त्वाप्तयेऽधानां कुम्भोद्भव ! भवापदम् ॥ १९ ।। प्रणतस्त्वामहं देव ! सुमित्रभव ! भक्तितः । तन्मा नोचय विश्वकरच मित्र ! भवभक्तितः ॥ २० ॥ क्रमाम्बुजं नमेः स्तौमि नतामरसभाजनम् । अस्पाक्षीजातु यत्क्षोणी न तामरसभाजनम् ॥ २१ ॥
__ अवचूरिः जगन्ति मनाति-पीडयतीति जगन्माथः यः श्रीनन्दनः-कामस्तस्य जये ईश्वर !-शम्भो । ! श्री: नाम राशी तस्या नन्दनः-पुत्रः तत्सम्बोधनम् । असीमगुणलक्ष्मीणां हे ईश्वर !-स्वामिन् ! त्वं जय इति योगः ॥ १७ ॥
परमस्य-आदरस्य सङ्गतः-सङ्गेन यः तव सेवां चकृवान्-चकार । स दुष्टकर्मणामुपरमात्-विगमात हे अपर ! परं पदं सङ्गतः-प्राप्तः इति योगः ॥ १८ ॥
भवः-संसारः स एव दुःखरूपत्वाद् आपद-विपत् तां हत्वा त्वं तस्प्राप्तये भव इति योग: । अघानां अपदं-अस्थानम् ॥ १९॥ 'प्रणतस्त्वां ' सुगमः । परं भवेन-संसारेण कृत्वा या भक्तयः-भजनानि ताभ्यो मां मोचय इति योगः ॥२०॥
नता अमरसभा-देवपर्षत् जनाः-मानवाश्च यस्मै । तामरसानिदेव सञ्चारितकमलानि भाजन-आधारो यस्य ॥२१॥