SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ( ७३ ) जनस्तुतिः गणिप्रणीता] चतुर्विंशतिजिनस्तुतिः विमलेश ! श्रितोपान्तं सन्नतामरसंसदा । स्तुवे तवाऽवियुग्मं श्रीसन्नतामरसं सदा ॥ १३ ॥ नमस्कर्ता न तेऽनन्तराज ! मानवनायकः ।। गुणद्रुमाणां माहात्म्यराजमान ! वनाय कः ? ॥ १४ ॥ विश्वातिशायिमाहात्म्योदयाय परमाय ते । नतोऽस्मि धर्म ! निस्सीमदयाय परमायते ! ॥ १५ ।। तव भक्तिं विना स्थानं सदा भावि भवोदधौ । अतस्त्वां सुकृती शान्ते ! सदाभाविभवो दधौ ॥ १६ ॥ अवचूरिः सन्नता-प्रणता या अमरसंसद-देवपर्षत् तया श्रितोपान्तम् । श्रिया-शोभया सन्नं-जितत्वेन विषण्णं तामरसं येन ॥१३॥ हे अनन्तराज ! ते-तुभ्यं नमस्कर्ता। कः ? मानवनायकः-मानवानां नायकः । सर्वातिशायिसम्पदन्वितत्वेन स्वामी न स्यादिति योगः । ते कीदृशाय ? गुणगुमाणां वनाय -काननाय । हे माहात्म्यराजमान ! ॥ १४ ॥ परमा-प्रकृष्टा परमपदप्राप्तत्वेन आयतिः-उत्तरकालो यस्य तत्सम्बोधनम् । परा-प्रकृष्टा-मा-लक्ष्मीः अनन्तसुखादिरुपा यस्य तस्मै परमाय | ते-तुभ्यम् । अहं नतोऽस्मीति योगः ॥ १५ ॥ सुगमः । परं, सुकृती कीदृशः ? सन्तौ-अन्येभ्योऽतिशायित्वेन विशिष्टौ आभाविभवौ-कान्तिद्रव्ये यस्य स सदाभाविभवः । भवति हि जिनभक्तिभाजां विभवादिसमृद्धिः ॥ १६ ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy