SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ( ७२ ) जैनस्तोत्रसन्दोहे [श्रीचारित्ररत्न बुधाः ! सेवध्वमाप्तेशं सुविधि कामदायकम् । यदि वो बुद्धिरारार्द्ध सुविधिं कामदायकम् ॥ ९ ॥ देवान्तरैः कथं तेऽस्तु नन्दाभव ! समानता ? । यत्ते जगत्त्रयी जातानन्दाऽभव ! समा नता ॥ १० ॥ मुक्त्यर्द्रा नमतां दत्ते श्रेयांसं कमलाकरम् । स्तवीमि गुणपद्यानां श्रेयांसं कमलाकरम् ॥ ११ ॥ सम्प्राप्तविश्वत्रितमीजयाङ्गजमदान्तकम् । वासुपूज्य ! भजामि त्वां जयाजजमदान्तकम् ॥ १२ ॥ अवचूरिः। काम-राग यति-छिनत्तीति कामदायकस्तम् । सुविधि-शोभनाचारम् । कामाः-चिन्तितार्थाः तान् ददातीति कामदायकस्तम् ।।९।। नन्दा नाम राज्ञी तस्या भवो यस्य । ते-तव देवान्तर समानता-सादृश्यम् कथमस्तु ? । यत्-यस्मात् । ते-तुभ्यम् । मातानन्दा-जातप्रमोदा समा-सकला विश्वत्रयी नता-ननाम इति योगः। हे अभव !-असंसार ! ॥ १० ॥ नमता दत्तानि श्रेयांसि-कल्याणानि येन तम् तथा । कमलालक्ष्मीम् करोतीति कमलाकरः तम् तथा । गुणपद्यानां कमलाकरमिति योगः ॥ १॥ . सम्प्राप्तो विश्वत्रितरया जयो येन एवंविधो योऽङ्गजः-कामस्तस्य मदः-दर्पस्तस्यान्तकं-विनाशकम् । जया नाम राज्ञी तस्या भाज-सुतम् । अदान्तं-केनाप्यनुपद्रुतं-के-सुत्रं यस्य सः, अदान्तकं तथा ॥ १२ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy