SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ गणिविरचिता ] चतुर्विंशतिजिनस्तुतिः स्वगोभिर्जगतौ सर्वाभिनन्दन ! सुखाकरः । तप्तां भवार्त्तितापेनाऽभिनन्दन ! सुखाकरः ॥ ४ ॥ सुमते ! कृतनम्राङ्गिमङ्गलोद्भव ! भारती । तनुते तव विज्ञानां मङ्गलोद्भव ! भारती ॥ ५॥ देह तिजिता ताम्रपद्मप्रभमहीनतम् । सेवे शिवाय देव ! त्वां पद्मप्रभ ! महीनतम् ॥ ६ ॥ तस्मिन् सर्वश्रियां पापहृदये भवदागमः । वासं सुपार्श्व ! यस्याssप हृदयेऽभवदागमः ॥ ७ ॥ येन त्वरणे पूता चन्द्रप्रभ ! मही नता । सुलभा तस्य कीर्त्यास्तचन्द्रप्रभ ! महीनता ॥ ८ ॥ ( ७१ ) अवचूरिः । हे सर्वाभिनन्दन ! - सर्वाल्हादक ! त्वं सुखाकरोति स्म । कृग्धातो ल्वादिपाठबलात् शवपि । सुखस्य भाकरः ॥ ४ ॥ मङ्गला नाम राज्ञी तस्या उद्भवो यस्य । भा व रतिश्च भारती ॥ ५ ॥ अनन्ता- सम्पूर्णा ता- -लक्ष्मी: अनतज्ञानादिरूपा यस्य तं अहीनतम् ॥ ६ ॥ पापहृत्-अय: शुभकर्म यस्य तस्मिन् पापहृदये । सर्वश्रियां आगमोऽभवदिति योगः | शेषं स्पष्टम् ॥ ७ ॥ मही- पृथ्वी नता - नमस्कृता । महीनो- राजा तस्य भावः कर्म वा महीनता - राज्यमित्यर्थः ॥ ८ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy