________________
(७०)
जैनस्तोत्रसन्दोहे
[श्रीचारित्ररत्न
[२२]
श्रीचारित्ररत्नगाणगुम्फिता चतुर्विशतिजिनस्तुतिः।
यस्ते श्रीऋषभ ! स्तौमि पदतामरसद्वयम् । स मुड़े परमानन्दपदतामरसद्वयम् ॥ १ ॥ भगवन् ! भवतो भव्या जितशत्रुभवादरम् । प्रपद्यन्ते पदं सद्यो जितशत्रुभवादरम् ॥ २ ॥ यद्यभीप्सथ निस्सीमशम्भवं परमागमम् । तदा भजत भो भव्याः ! शम्भवं परमागमम् ॥ ३ ॥
__ अवचूरिः । __ 'यस्ते श्री०' परम आनन्दो यस्मिन् तत् परमानन्दं यत् पदं मुक्तिलक्षणं तस्य ता--लक्ष्मी:-आनन्दसुखादिरूपा तां भुड़े। कथम् ? ' अरसद्वयम् ' न विद्यते रसद्वयं यस्मिन् विगलितरसान्तरास्वादमित्यर्थः । क्रियापदविशेषणमिदम् ॥ १ ॥
शत्रुरिव शत्रुः अनन्तदुःखदायित्वात् शत्रुश्चासौ भवश्च । मरम्-अत्यर्थम् । अपुनःप्ररोहम् । जितः शत्रुभवो येन तस्मात् । भवतः इत्यत्र 'गम्ययपः कर्माधारे' ( सिद्ध० २।२। ७४ ) इति पञ्चमी । भवन्तं प्राप्य इति भावः । अदरं-भयरहितं पदं मुक्तिलक्षणम् । जितशत्रोनृपाद् भवः-उत्पत्तिर्यस्य तत्सम्बोधनम् ॥ २ ॥
निस्सीम यत् शम्-सुखं तस्य भवम्-उत्पत्तिभूमिम् । परा या या-लक्ष्मीः शिवश्रीरूपा तस्या आगमम्-सङ्गमं यदि यूयमभीप्सथवाञ्छथ इति योगः ॥३॥