SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ विनिर्मितानि] त्रिंशचतुर्विंशतिकास्तवनानि (६९) भाविजिना: अदोषितं वृषस्वामि-विनयानन्दसञ्ज्ञको । मुनिनाथेन्द्रको चन्द्रबाहुं ध्यायामि सादरम् ॥ ९ ॥ दिलादित्यं वसुबोधकं मूर्तिकं धर्मबोधकम् । देवाङ्ग-मरीचिकाढावभिनौमि सुजीवनम् ॥ १० ॥ यशोधरं गौतमं च मुनिशुद्धं प्रबोधकम् । शतानीकं च चरितनाथं स्मृतिपथं नये ॥ ११ ॥ कृतार्थकं वदेो (2)-सुधामानं स्मराम्यहम् । ज्योतिर्मुखं सूर्यकं चेत्यमी भाविजिना मुदे ॥ १२ ॥ इतीषुसङ्ख्यैरवतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्युः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥ हेमचन्द्राभ्यर्थनया श्रीमद्देवेन्द्रसूरिणा । त्रिंशञ्चतुर्विंशतिकास्तवाः दश विनिर्मिताः ॥ १ ॥ मथुरानगरीस्तूपे पट्टतः पूर्वसूरिभिः । लिपीकर्मीकृता एते सम्प्रदायोऽयमेव हि ॥ २ ॥ ॥ इति त्रिंशच्चतुर्विंशतिकास्तवनानि सम्पूर्णानि ।। - erong:सकलसुविहितसूरिसमाजराज - श्रीतपागच्छाधिराज – भट्टारकप्रभुश्रीविजयदेवसूरीश्वरसाम्राज्ये विजयिनि महोपाध्यायश्रीशान्तिचन्द्रगणिचरणारविन्दचञ्चरीकसमानपण्डितअमरचन्द्रगणिना लिखितानि । संवत् वसु-निधि-शरभूवदन-सुधाकर मिते (१६९८) वर्षे मार्गशीर्षासिततृतीयायां दक्षिण... देशे श्रीविद्यापुरसमीपवर्तिश्रीस्याहपुरे ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy