SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ (६८) जैनस्तोत्रसन्दोहे [श्रीदेवेन्द्रसूरि-- पञ्चमैरवतस्तवः ॥५॥ अतीतजिना: सुसम्भवं श्रियः फल्गुं श्रीश्रीपूर्वकनामकम् । सौन्दर्यगरिकाभिख्यं तथा चैव त्रिविक्रमम् ॥ १॥ नारसिंहं मृगवसुं सोमेश्वर-सुभातकौ । विमल-विबोधनामानौ तथा सङ्गमकं स्तुवे ॥ २ ॥ मान्धातक-सुतेजस्कौ विद्याधर-सुलोचनौ । मानाधिक-पुण्डरीको नौमि चित्राङ्गनामकम् ॥ ३ ॥ माणिभद्रं सर्वकालं भूरिश्रवसमाश्रये । पुण्याङ्गमिति चातीतास्तीर्थनाथाः पुनन्तु नः ॥ ४ ॥ वर्तमानजिनाः गाङ्गेयं बलभद्रं च भीमकं च ध्वजासिकम् । सुभद्रं स्वामिनं चान्ते धारये हतिकाढयम् ।। ५ ॥ नन्दिघोषं जगन्नाथं वज्राख्यं वज्रनाभिकम् । सन्तोषस्वामिनं सेवे सुधर्माणं तथैव च ॥ ६॥ फणादिं वीरचन्द्रं चाऽमोघनाथं स्तवीम्यहम् । स्वच्छं चाकोपकाऽकामौ तथा सन्तोषकाह्वयम् ॥ ७ ॥ शत्रुसेनं चक्षुष्मन्तं दयानाथं च कीर्तये ।... शुभं नौमीत्यमी वर्तमानाश्छिन्दन्त्वघं जिनाः ॥ ८ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy