SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ विनिर्मितानि] त्रिंशञ्चतुर्विशतिकास्तवनानि (६७ ) सुविधानं च वन्देऽहं हिमाकाशमसंक(का)यम् । त्र्यम्बकं चेतीमेऽतीता जिनाः स्युभवभेदिनः ॥ ४ ॥ वर्तमानजिना: निशामिता-ग्राहिताख्या-बचिन्तिकमुपाश्रये । छमादि-तपोधनाहौ स्वर्नाथं च तपोनिधिम् ।। ५॥ पुष्पकेतुं धार्मिकं च चन्द्रकेतुं ग्रहारिणम् । वीतरागं तथोद्योतं पूजयामि तपोनिधिम् ॥ ६ ॥ अतीतं मेरुदेवं च दामिकाख्यमभिष्टुमः। क्षमितं च शिलादित्यं विश्वनाथं नमाम्यहम् ॥ ७ ॥ तमोऽकन्दं सहस्रादि तमोऽन्तिकं च ब्रह्मजम् । नौमीति वर्तमाना मे जिनाः स्युर्वाञ्छितार्थदाः ॥ ८ ॥ भाविजिनाः यशोधरं कृतार्हन्तमभयघोषमर्चये । निर्वाणकं व्रतवसुं रविराजाभिधानकम् ॥ ९ ॥ अश्वजितमृजुनशं तपश्चन्द्रं स्तुमस्तमाम् । शारीरिक महासेनं सुग्रीवस्वामिनं तथा ॥ १० ॥ दृढप्रहार्यऽम्बरिकी वृषातीतं च तुम्बरुम् । सर्वशालं प्रतिजातं पूजयामि जितेन्द्रियम् ॥ ११ ॥ तपादि-रत्नाकराख्यौ देवेशं नौमि लाञ्छितम् । प्रवेशमित्यमी भाविदेवाः पुष्णन्तु वः शिवम् ॥ १२ ॥ इत्थं चतुथैरवतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्युः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy