SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ विनिर्मितानि ] त्रिंशश्चतुर्विंशतिकास्तवनानि (६३ ) भाविजिना: सिद्धार्थं च विमलाख्यं यशोघोषमभिष्टुमः । नन्दिषेणं तथा स्वर्गमङ्गलं वज्रधारिणम् ॥ ९ ॥ निर्वाणं धर्मध्वजं च सिद्धसेनं स्तवीम्यहम् । महासेनं रविमित्रं सत्यसेनाभिधानकम् ॥ १० ॥ श्रीसेनं मोहसेनं च समञ्चामि स्वयं जिनम् । देवदत्तं सुव्रताह जिनेन्द्रं च सुपार्श्वकम् ॥ ११ ॥ सुकोशलमनन्ताख्यं विमलामृतसेनको । वन्देऽग्निदत्तमित्येते भाव्यर्हन्तः शुभाय मे ॥ १२ ॥ इत्याद्यैरक्तक्षेत्रेऽतीताया जिनपुङ्गवाः । संस्तुता अदभुतां दद्युः श्रीसतिलकश्रियम् ॥ १३ ॥ द्वितीयैरवतस्तवः ॥ ७॥ अतीतजिना: वज्रस्वामी-न्द्रदत्ताख्यौ सूर्यकाढू पुरूरवम् । स्वामिकमवबोधाख्यं विक्रमेशं नमाम्यहम् ॥ १ ॥ निर्घण्टक-हरीन्द्राख्यौ प्रणमामि प्रतेरितौ। निर्वाणं मूरिनामानं धर्महेतुं चतुर्मुखम् ॥ २ ॥ जनकेन्दुं स्वयंनाकं विमलादित्यनामकम् । देवप्रभ-धरणेन्द्री सतीर्थ समुपास्महे ॥ ३ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy