SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ विनिर्मितानि] त्रिशञ्चतुर्विशतिकास्तवनानि रोमाञ्चकं मुक्तिनाथं प्रसिद्धं च नमाम्यहम् । तथा जिनेशमित्येतेऽतीतास्तीर्थकृतः श्रिये ॥ ४ ॥ वर्तमानजिना: पद्मप्रभं प्रभावं (क) च बलनाथं युगेश्वरम् । सुषमाङ्ग बलातीतं मृगावं समुपास्महे ॥ ५ ॥ कलम्बकं पवित्राङ्गमथ नौमि निपेधकम् । पापाग्रहर-सुस्वामि-मुक्तिचन्द्रांस्तथा श्रये ॥ ६ ॥ अप्राप्तिक-नदीतट-मलधारि-सुसंयमान् । ईडे मलयसिंहं च क्षोभं देवधरं तथा ॥ ७ ॥ प्रयच्छन्तागमिकौ च विनीतस्वामिनं स्तुमः । रतानन्दं चेति वर्तमाना भवतुदो जिनाः ॥ ८ ॥ भाविजिनाः प्रभावकं विजयेन्द्रं सुभावं हृदि भावये । दिवाकर- भागधेयो धनदं चापि पौषधम् ॥ ९ ॥ जिनदत्तं श्रये पार्श्वस्वामिनं मुनिसिंहकम् । आस्तिकं च भवानन्दं नृपनाथं नरायणम् ॥ १०॥ प्रथमाकं भूपतिं च दृष्टांशुं प्रभवीरुकम् । नान्दनं भार्गवं चापि चेतोऽन्तः स्थापयेऽन्वहम् ॥ ११ ॥ परावसुं किल्बिषादं नवनासिकमर्चये । भरतेशं चेति भाविजिनास्सन्तु भयापहाः ॥ १२ ॥ इत्थं पञ्चमभरतेऽतोताद्या जिनाङ्गवाः । संस्तुता अद्भुतां दद्युः श्रीसङ्घतिलकाश्रयम्॥ १३ ॥ -
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy