________________
विनिर्मितानि] त्रिंशश्चतुर्विशतिकास्तवनानि
(५७ )
भाविजिना:
सिद्धनाथं सम्यगाख्यं जिनेन्द्राभिधमाश्रये । साम्प्रतं च तथा सर्वस्वामिनं मुनिनाथकम् ॥ ९ ॥ विशिष्टापरनाथाख्यौ ब्रह्मशान्ति च पर्वतम् । कामुकं धामनामानं कल्पं संवरमाश्रये ॥ १० ॥ स्वस्थाऽऽनन्दौ रविचन्द्रं प्रभवं भावये हृदि । सन्निधिं च सुवर्णं च सुकर्माणं तथैव च ॥ ११ ॥ अममं पार्श्वनाथं च वरिवस्यामि शाश्वतम् । इति भाविजिना मङक्षु मोक्षसौख्याय सन्तु मे ॥ १२ ॥ इत्थं द्वितीयभरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दधुः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥
तृतीयभरतस्तवः ॥३॥
अतीतजिनाः
वृषभं प्रियमित्राख्यं शान्तनुं सुमृदुं तथा । अतीतमव्यक्त-कलाशत-सर्वजितः स्तुवे ॥१॥ प्रवृद्धं प्रव्रजिताख्यमीडे सौधर्मनामकम् । तमोऽन्धद्वीपवज्रेशौं बुधनाथं प्रबन्धकम् ॥ २ ॥ अतीतस्वामिप्रमुखैः पल्योपममकोपनम् । निष्ठितं मृगनाभिं च हृदयान्तरहं यहे ॥ ३ ॥