SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ (५८) जैनस्तोत्रसन्दोहे [श्रीदेवेन्द्रसूरिदेवेन्द्रं च प्रयच्छं च शिवनाथं तथाऽऽश्रये ।। इत्यतीता जिनाः सन्तु सतां पातकघातकाः ॥ ४ ॥ वर्तमानजिनाः ब्रह्मेन्द्रं कर्पटं चापि वृषभं प्रियतेजसम् । प्रशमं विषमाङ्गाख्यं श्रये चारित्रनामकम् ॥ ५ ॥ प्रभादित्यं मुञ्जकेशं पीतवाससमाश्रये । सुररिपुं दयानाथं सहस्रध्वजसंज्ञकम् ।। ६ । जिनसिंहं रेपकं च बाहु-श्रीवाक्य-योगकान् । योगनाथं कामरिपुं नमामोऽरण्यवासकम् ॥ ७ ॥ नमिकं च तथा ज्ञानगर्भमेकार्जितं भजे । भवन्त्वमी वर्तमाना जिनेन्द्राः सर्वशर्मदाः ॥ ८ ॥ भाविजिना: रत्नकेशं चक्रहस्तं कृतज्ञं परमेश्वरम् । सुमूर्ति शुद्धातिमपि निष्केशमभिनौम्यहम् ॥ ९ ॥ प्रशस्तकं निराहारं मुहूर्तस्वाभिनं श्रये । द्विजनाथं तथा श्वेताङ्गदं चारुकनाथकम् ॥ १० ॥ देवनाथमहं वन्दे दयाधिकं च पुष्पकम् । नरनाथं प्रतिकृति नागेन्द्रं च तपोनिधिम् ॥ ११ ॥ अञ्चामोऽञ्चलनाथं चाऽऽरण्यकं च दशाननम् । सात्विकं चेति भाव्यर्हन्मालिका मङ्गलाय मे ॥ १२ ॥ एवं तृतीयभरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्युः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy