SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ (५६) जैनस्तोत्रसन्दोहे [श्रीवेदेन्द्रसूरि द्वितीयभरतस्तवः॥ २॥ अतीतजिना: रत्नप्रभाभिधं सेधेऽमित–सम्भवसंज्ञको ।। अकलङ्क तथा चन्द्रस्वामिनं च शुभङ्करम् ।। १ ।। सत्वनाथमहं स्तौमि सुन्दरं च पुरन्दरम् । स्वामिनं देवदत्तं च तथा वासवदक्षकम् ॥ २ ॥ श्रेयांसं विश्वरूपं च तपस्तेजसमञ्जसा । प्रतिबोधं च सिद्धार्थ भजेऽहं संयमाऽमलौ ॥ ३ ॥ देवेन्द्र प्रवरं विश्व सेनाख्यं मेघनन्दनम् । सर्वज्ञं नौमि चेत्येतेऽतीतास्सन्तु मुदे जिनाः ॥ ४ ॥ वर्तमानजिना: युगादि स्तौमि सिद्धान्तं महेश-परमार्थको । समुद्धरं भूधरं चौद्योतमार्जवनामकम् ॥ ५ ॥ अभयनाथाऽप्रकम्पौ पनं सेवामि भावतः । पद्मानन्दं प्रियकर तथा सुकृतनाथकम् ॥ ६ ॥ भद्रेश्वरं मुनिचन्द्रं पञ्चमुष्टिं त्रिमुष्टिकम् । गाङ्गिकं प्रगवनाथं सर्वाङ्गं प्रणिदध्महे ॥ ७ ॥ ब्रह्मेन्द्रमिन्द्रदत्ताख्यं तथा जिनपतिं स्तुवे । इत्येवं वर्तमानार्हद्वन्दं भद्रं ददातु नः ॥ ८ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy