SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ maamana ownermirrrrrrrrrrrr AN वेनिमितानि ] त्रिंशश्चतुर्विंशतिकास्तवनानि (५५ ) जिनेश्वरं शुद्धमति सेवे शिवकरं तथा । स्यन्दर्भ सम्प्रति चेत्यतीताः सन्तु श्रिये जिनाः ॥ ४ ॥ वर्तमानजिना: ऋषमं चाऽजितं चैव सम्भवं चाभिननन्दनम् । सुमतिं पद्मप्रभाख्यं सुपार्श्व नौम्यहं जिनम् ।। ५ ॥ चन्द्रप्रभं च सुविधि कलये हृदि शीतलम् । श्रेयांसं वासुपूज्यं च विमलानन्तजिज्जिनौ ॥ ६ ॥ धर्मनाथं तथा शान्तिनाथं कुन्थु तदन्तरम् । मल्लिं सुनिसुव्रताडं पूजयामितमा नमिम् ।। ७ ।। नेमिनं पार्श्वनाथं च वर्द्धमानमभिष्टुमः । इत्यमी वर्तमानास्ते भूयासुर्भूतये जिनाः ॥ ८ ॥ भाविजिना: पद्मनाभं सूरदेवं सुपार्श्व च स्वयंप्रभम् ।। सर्वानुभूतिमभितो वन्दे देवश्रुताह्वयम् ॥ ९ ॥ उदयाख्यं च पेढालं पोटिलं सितकीर्तिकम् । सुव्रतं चाममं निष्कषायं हृदि निवेशय ॥ १० ॥ निःपलासं निर्ममाख्यं चित्रगुप्तं तथा श्रये । समाधि-संवर-यशोधरान् विजय-मल्लकौ ॥ ११ ॥ देवं चानन्तवीर्यं च स्तुवे भद्रकरं तथा । इत्येते भाविनोऽहन्तो विघ्नं निन्नन्तु मेऽन्वहम् ॥ १२ ॥ इत्याधभरतक्षेत्रेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दधुः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy