SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्रसन्दोहे . [श्रीदेवेन्द्रसूरिसूत्रं यतीनतिपटु स्फुटयुक्तियुक्त युक्तिप्रमाणनयभङ्गगमैगभीरम् । ये पाठयन्ति वरसूरिपदस्य योग्या ___ स्ते वाचकाश्चतुरचारुगिरो जयन्ति ॥४॥ सिद्धाङ्गनासुखसमागमबद्धवाञ्छाः संसारसागरसमुत्तरणैकचित्ताः । ज्ञानादिभूषणविभूषितदेहभागा रागादिघातरतयो यतयो जयन्ति ॥५॥ [२१] श्रीदेवेन्द्रसूरिविनिर्मितानि त्रिंशचतुर्विंशतिकास्तवनानि । प्रथमभरतस्तवः ॥१॥ अतीतजिना:--- केवलज्ञानिनं निर्वाणिनं सागरमेव च । महायशोऽमिधं वन्दे भक्त्या विमलनामकम् ॥ १ ॥ सर्वानुभूति प्रणुमः श्रीधरं दत्तसंज्ञकम् । दामोदरं सुतेजस्कं स्वामिनं मुनिसुव्रतम् ॥ २ ॥ सुमतिं शिवगत्याख्यमस्ताघं च नमीश्वरम् । अनिलं यशोधराहं कृतार्घ च नमाम्यहम् ॥ ३॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy