________________
(५३)
wwwwwwwwwwwwwwwww
naraN
विनिर्मितम् ] नमस्कारस्तवनम्
सोलस परमक्खरबीयबिंदुगब्भो जगुत्तमो जो उ । सुअबारसंगसायरमहत्थपुव्वत्थपरमत्थो । ३६ ॥ नासेइ चोरसावयविसहरजलजलणबंधणसयाई । चिंतितो रक्खसरणरायभयाइं भावेण ।। ३७ ॥
[२०]
नमस्कारस्तवनम् ।
-::नम्रामरेश्वरकिरीटनिविष्टशोण
रत्नाप्रभापटलपाटलिताद्धिपीठाः । तीर्थेश्वराः शिवपुरीपथसार्थवाहा
निःशेषवस्तुपरमार्थविदो जयन्ति ॥१॥ लोकाग्रभागभवना भवभीतिमुक्ता
__ ज्ञानावलोकितसमस्तपदार्थसार्थाः । स्वाभाविकस्थिरविशिष्टसुखैः समृद्धाः
सिद्धा विलीनघनकर्ममला जयन्ति ॥२॥ आचारपञ्चकसमाचरणप्रवीणाः
सर्वज्ञशासनधुरैकधुरन्धरा ये । ते सूरयो दमितदुर्दमवादिवृन्दा
विश्वोपकारकरणप्रवणा जयन्ति ॥३॥