________________
चार्यविनिर्मितम्
साधारणजिनस्तवनम् .
(४७)
आवां याव इतो निहन्ति न जिनो नौ मित्र ! यत्र स्थिता
वावाभ्यामभवत् स्मरस्य सखिता क्रुधश्च कामान्तकः । पुण्यं चाऽद्य परिच्युतं बत बलं क्षीणं न धीश्चावयोः ___ सञ्चिन्त्येति विभो । प्रणेशतुररं त्वद्वेषरागाविमौ ॥६॥ इति मम आदेशः । मयि बलं अलं-अत्यथ वर्तते । वर्तते इति क्रियापदम्। किं कर्तृ ? बलम् । कस्मिन् ? मयि । हि-निश्चितम् । तावत् इति मदन:-कामः-स्मयं-गर्व दः । दः इति क्रियापदम् । कः कर्त्ता ? मदनः । कं कर्मतापन्नम् ? । स्मयम् । कथम् ? तावत् कथम् ? हि । हे जिन ! यावतू मदनः भवता न अव्याधि-न ताडितः। अव्याधि इति क्रियापदम् । केन का? भवता। कः कर्मतापनः ? मदनः । कथम् ? यावत् । कथम् ? न । ' व्यधंच ताडने' 'भावकर्मणोः (सिद्ध० ३-४-६८) इति जिचि ‘अद्यतनी' (सिद्ध ० ५-२-४) न लुकि । ‘णिति' (सिद्ध० ४-३-५०) वृद्धौ पूर्व 'अह धातोरादिहस्तन्यां चामाङा' ( सिद्ध० ४-५-२९ ) इति अटि अव्याधि इति सिद्धम् ॥ ५॥
आवां०' इतः आवां यावः । ' यावः ' इति क्रियापदम् । कौ कर्तारौ ? आवाम् ! कुत: ? इतः । हे मित्र ! यत्र स्थितौ नौआवां जिनो न निहन्ति । निहन्ति इति क्रियापदम् । कः कर्ता ? जिनः । कौ कर्मतापन्नौ ? नौ-आवाम् । कथम् ? न । नौ किं
१ आवाभ्यां स्मरस्य सहाय्योऽभवत् । आवाभ्यां सम्प्रदानभूताभ्याम् । कामान्तकः क्रुद्धोऽस्ति । — क्रुदुहेासूयाऽथैर्य प्रति कोपः' ( सिद्ध० २-२-२७ ) इति चतुर्थी । कामान्तकःजिनः । अनेन विशेषणेन स्मरसहाय्ययो रागद्वेषयोः क्रोधहेतुत्वं व्यनक्ति । आवयोः सम्बन्धि बलं क्षीणम् । आवयोर्विशष्यभूतयोः धीः नास्ति ।