________________
जैनस्तोत्रसन्दोहे .
श्रीसोमप्रभा
अहं वीरः प्राप्ताः शरणमबला मां त्रिभुवनं ___ मया जिग्ये मह्यं स्पृहयति मही मद् भुवि सुखम् । ममाग्यं साम्राज्यं मयि बलमलं तावदिति हि स्मयं दधे यावन्न जिन ! मदनोऽव्याधि भवता ॥५॥
__ अवचूरिः। पञ्चमीद्विवचनोदाहरणम् । युवयोः पुण्यं वर्तते । कथम् । च-पुनः ? युवयोः तेजो वर्त्तते ॥ ३ ॥
'यूयम' रे कषायरिपवः ! यूयं नश्यत । नश्यत इति क्रियापदम् । कषाया एवं रिपवः कषायरिपवः तेषां सम्बोधनं हे कषायरिपवः । - नशौच अदर्शने' इत्यस्य 'दिबादेः श्यः' (सिद्ध० ३-४-७२) इति श्यप्रत्यये पञ्चमी ते सति सिद्धम् । युष्मान् जिनः प्रेक्षते । युष्माभिर्जगन् मथितम् । आः इति खेदे । युष्मभ्यं मुनिपतिः क्रुद्धोऽस्ति । युष्मद् भाग्यं अपासरत् । 'सृ गतौ ' अपपूर्वः । ननु इत्यामन्त्रणे । युष्माकं बलं क्षितम् । कथम् ? अद्य । युष्मासु किं चेतना नास्ति ? यत् अद्यापि वः इयती धृष्टता वर्त्तते । केषाम् ? वः । किम्भूता ? इयती । कथम् ? यत् । कथम् ? अपि । युष्मदो बहुबचने आमि पदाधुग विभक्त्यैकवाक्ये वस्नसी बहुत्वे' (सिद्ध०२-१-२१) इत्यामा सह वसादेशे चेति सिद्धम् ॥ ४ ॥
'अहं' अहं वोरोऽस्मि । किलक्षणः ? वीरः । मां अबलाः शरणं प्राप्ताः । प्राप्ता इति क्रियापदम्। के कर्तारः ? अबलाः । किं कर्मतापन्नम् ? शरणम् । कं कर्मतापन्नम् ? माम् । द्विकर्मको धातुः । मया त्रिभुवनं जिग्ये । मह्यं मही स्पृहयति। भुवि सुखं वर्तते । कस्मात् ? मत् । अस्मत्पश्चम्येकवचनम् । मम अग्यू-प्रधानं साम्राज्यं वर्तते । सम्राजो भावः साम्राज्यम् । किंलक्षणम् ? अश्यम् । कस्य ? मम । अस्मदो डसा सह तव मम डसा' (सिद्ध० २-१-१५)