________________
साधारणर्जिन स्तवनम्
यस्ते सुप्तोत्थितः पश्येत् पादपद्मं सुदारुणम् ।
I
न पुनर्लभते नाथ ! भवे दुःखं स दारुणम् ॥७॥ निःशेषमङ्गला गारे प्रगेऽङ्घ्री यो न नाथ ! ते । वीक्षते स कथं मूढो मोक्षसौख्यस्य नाथते ? ॥ ८॥ प्रभा ते पादयोः स्पृष्टा प्रभाते शिरसा प्रभो ! | विभवं वितनोत्याशु विभवं च पदं नृणाम् ॥ ९ ॥ प्रभो ! त्वत्पादयोर्नित्यमरुणामरुणोदये । स्पृशन्न स्पृश्यते नाथ ! पातकैर्भवपातकैः ॥ १० ॥ त्वत्पादनख चन्द्राणां ज्योत्स्नया स्नपिता विभो ! । प्रणन्तारः प्रगे भान्ति मूर्त्तपुण्योज्ज्वला इव ॥ ११ ॥ किं गुणैः किं कुलेनापि किं रूपेण किमाज्ञया ? | किं विभो ! विभवेनापि न चेन्नित्यं त्वमीक्ष्यसे ॥ १२ ॥ एतत्प्रभातकुलकं फुलकं दधानो
हरिप्रणीतम्
यस्तै निशान्तमुपगम्य निशान्त एव । स्वामिन् ! पठेत् त्रिदिववासमुपास्य पश्चाचन्द्रप्रभामलमुपैति पदं स मुक्तेः ॥ १३ ॥
[ १८ ] श्री सोमप्रभसूरिविरचितं साधारणजिनस्तवनम् ।
श्रीमन् ! धर्मं श्रय मम मनः सन्मतेऽम्ब ! प्रसीद श्रद्धे ! श्रेयोजलभरनदि ! प्रोल्लस त्वं प्रकामम् ।
( ४३ )