________________
( ४२ )
जैनस्तोत्र सन्दोहे
गच्छाधिप श्रीजयकीत्तिसूरिशिष्यो महीमेरुरहं स्तवं ते ।
[ श्रीचन्द्रप्रभ
कृत्वा क्रियागुप्तकवित्वमित्थं त्वामेव दध्यां हृदये जिनेन्द्र ! ॥ ५३ ॥
[ १७ ] श्रीचन्द्रप्रभसूरिप्रणीतं साधारणजिनस्तवनम् । (प्रभातकुलकापराख्यम् )
प्रातरेव समुत्थाय तीर्थनाथ ! मुखं तव । ये पश्यन्ति प्रणश्यन्ति तेषां नियतमापदः ॥ १ ॥ जिनेन्द्र ! त्वन्मुखाम्भोजं प्रातः पश्यन्ति ये नराः । सार्द्धं सर्वज्ञकल्याणैर्नित्यं त्यजति तान्न राः ॥२॥ भावतो भवतो दृष्टं मुखं दिनमुखे न यैः । मर्त्यजन्मफलं नाथ ! नाशितं नाशितं हि तैः ॥३॥ प्रभो ! प्रभोदयेऽवश्यं पश्यन्नास्यं तवान्वहम् । नरो न रोगदारिद्रोपद्रवैर्देव ! दूयते ॥ ४ ॥ नेदं पुण्यमपुण्यानां प्रभो ! प्रातः प्रयाति ते । मुखं मुखमभीष्टानां सुदृष्टेर्दृष्टिगोचरम् ॥५॥ दृष्ट्वा ते वीतरागास्यं कान्तोपान्तं मनोहरम् | कथमभ्येति भव्यानां कान्तोपान्तं मनो हरम् ॥६॥
१ कान्ता उपान्ते यस्य