________________
मुनिप्रणीता] जिनस्तुतिपश्चाशिका (४१)
विज्ञप्तेः पापपारावदलितनरकालिमोहनृपकारा । कांस्कान ते जिनाज्ञा सुपालिता साधुजनमान्या ॥४४॥ आज्ञा यदि त्वदीया लब्धा भवकोटिदुर्लभेह मया । तत्तां कामगवीमपि नाहं तु समीहया युक्तः ॥४५॥ संसारे कान्तारेऽनन्तभवान्नाथ ! जन्तुनाऽनेन । दुःखं वचनातीतं विना तवाज्ञां जिनाधीश ! ॥४६॥ त्रिभुवनविदितोयोत त्वयि दृष्टे यद्यहं न जगदीश !। मोहान्धकारभिदुरे सकोऽपि दोषो ममैव तदा ॥४७॥ नित्यं प्रीणितहृदैये भाषितनिःशेषजन्तुजातदये । विहितान्तरारिविजये त्वयीक्षिते मोदमहमभये ॥४८॥ सितकरसौम्यतरास्ये योगिजनैस्तत्त्वतस्तु समुपास्ये । मोहेनाहं दास्ये कथं त्वयीशे श्रितेऽहास्ये? ॥४९॥ अहमिह हरिहरमुख्याऽनेकसुराणां चरित्रमाकर्ण्य । त्वामेव देवदेवं निष्कारणवत्सलं लोके ॥५०॥ भव्यजनेशाधीश्वर ! पवित्रचारित्रराधनं सुमतिम् । सततं समीहमानं माममलज्ञाननीरनिधिः ॥५१॥ पदनतनिर्जराजे भवत्यहं सेवकोऽपि गाढतरम् । तेन त्वदीयसेवा भवे भवे म भृशं भूयात् ॥ ५२ ॥ , आ-समन्तात् समीहे । २ उद्द्योते हे कान्त !--स्वामिन्!
आरे-प्रापि । ३ प्रीणितहृत-अये-गच्छामि । ४ लोके-अवलोकयामि। - ५ भन्यजनं शाधि-शिक्षा देहि हे ईश्वर ! । ६ हे पदनतनिर्जर !
राजे-शोभेऽहम् ।