SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ( ४० ) जैनस्तोत्रसन्दोहे यः परमविभाव ! सदानन्दमये तव मते ह्यकम्पमतिः । तस्य जिनेश्वर ! विश्वे न दुर्लभा शिवपदावाप्तिः || ३५॥ यः किल निर्मलमनसाऽस्मेरदेवममाय ! निर्ममाधीश ! | तव नाम महामन्त्रं समीहितं करगतं तस्य ॥ ३६॥ यः श्रीजिनेन्द्र ! मिथ्यामतिमुदितो मानसे नवक्रोधत् । शुभवति भवति द्वेषं नहि भवति स भव्यताशाली ॥३७॥ सङ्ख्याव्यतीतनवनवभवसम्भूतानि पापकर्माणि । तव शिवकर ! सद्ध्यानाजिनौतिभक्तिप्रसक्तात्मा ॥ ३८ ॥ तापं पापं च जने समन्ततः सन्ततं निरस्यन्ती । तव वागविबुद्धेर्गङ्गावादीन्द्रवर्ण्यतम ! ||३९|| तादृक्षसमवसरणं भवभयहरणं जगत्त्रयीशरणम् । न तव पुरा के भन्या दृष्वा पुरतः परानन्दम् ॥४०॥ भक्त्या धाम मनोरमसुरनिर्मितसमवसरण ऋद्धिवरम् । हृदये भवन्तमीशं न वयं मिथ्यात्वमतिमूढाः ॥ ४१ ॥ सुरतरुरिह तव चरितं निशम्य मन्ये विदूरतरदेशम् । चिन्तातिगफलदातुर्बहुधाँम विराजमानस्य ॥ ४२ ॥ अकृतकलाविलासादिलातलाभासिकेवलालोकात् । भवतोऽधिगत्य सुकृतं संसारं मूलतः सुजनः ॥४२॥ [ श्रीमहिमेरु ३ १ अस्मरत् - स्मृतवान् । २ मानसे न वक्रः अधात् । मिनाति - जीर्णीकरोति । ४ अवादि । ५ आपु: -- प्राप्तवन्तः अतः । ६ अधाम- अस्थापयाम । ७ आम-भक्ति चकार t ८ अन्तमकृत । असात्
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy