________________
(४४)
जैनस्तोत्रसन्दोहे
[श्रीसोमप्रभा
रोमाङ्करांस्तनु तनु ! भज त्वं च मां भाव ! बन्धो !
मातस्त्वं गौः ! प्रसर च यथा संस्तुवे श्रीजिनेन्द्रम् ॥१॥ त्वं नाथस्त्वां स्तुवे नाथं सनाथोऽहं त्वया नमः । तुभ्यं त्वन्मे शुभं ज्ञानं तवाऽनन्तगुणास्त्वयि ॥ २ ॥
अवचरिः। हे श्रीमन् ! हे धर्म ! मम मनः त्वं श्रय । श्रय इति क्रियापदम् । कः कर्ता ? त्वम् । किं कर्मतापनम् ? मनः । कस्य ? मम । श्रीरस्थास्तीति श्रीमान् तस्य सम्बोधने हे श्रीमन् !। हे सन्मते ! अम्ब ! मां त्वं प्रसीद । प्रसीद इति क्रियापदम् । कः कर्ता ? त्वम् । कं कर्मतापन्नम् ? माम् । सुष्टु-शोभना मतिर्यस्य स सन्मतिः। तस्य सम्बोधने हे सन्मते!। ह योजलभरनदि! हे श्रद्धे ! त्वं प्रोल्लस । प्रोल्लस इति क्रियापदम् । का कः वम् । कथम् ? प्रकामम् । ह तनु ! रोमाङ्करान् तनु। तनु इति क्रियापदम् । कान् कर्मतापन्नान् ? रोमाङ्करान् । किं कर्तृ ? त्वम् । हे भाव! ह बन्धो ! मां त्वं भज | भज हात क्रियापदम् । कः कर्ता ? त्वम् । के कमतापन्नम् ? माम् । च-पुनः । हे मातः ! हे गौः ! प्रसर । प्रसर इति क्रियापदम् । का की ? त्वम् । कथम् ? यथा श्रीजिनेन्द्र अहं संस्तुव । संस्तुवे इति क्रियापदम् । कः कर्ता ? अहम् । कं कर्मतापन्नम् ? श्रीजिनेन्द्रम् कथम् ? यथा ॥ १ ॥
त्वं नाथोऽसि । असीति क्रियापदम् । कः का? त्वम् । किम्भूतः ? नाथः । त्वां नाथं अहं स्तुवे । स्तुवे इति क्रियापदम् । कः कर्ता ? अहम् । कं कमतापन्नम् ? त्वाम् । त्वा किंविशिष्टम् ? नाथम् । त्वयाऽहं सनाथोऽस्मि । अस्मीति क्रियापदम् । कः कर्ता ? अहम् । अहं कथम्भूतः ? सनाथः । केन ? त्वया । तुभ्यं नमोऽस्तु । अस्तु इति क्रियापदम् । किम् ? नमः । कस्मै ? तुभ्यम् । त्वन्मे शुभम् । त्वत्तः मे-मम शुभ वर्तते । वर्तते इति क्रियाँ पदमध्याहार्यम् । किम् ? शुभम्। कस्य ? मम | कस्मात् ? त्वत्-त्वत्तः । तव ज्ञानं वर्तते । वर्तत इति क्रियापदम् । कि ? ज्ञानम् ?। कस्य ? तव । त्वयि अनन्तगुणा :