________________
भन्य
( ३८ )
जैनस्तोत्रसन्दोह [श्रीमहीमेरुदुःसहसुरनरतिर्यकृतोपसर्गावली त्वया त्रेधा । विश्वे क्षमीश ! सम्यक सिद्धिसुखास्वादरसिकेण ॥ १७ ॥ दुर्जनजनेन लपितं दुर्वचनं श्रवणशूलसदृशमपि । भवता सुरपतिविहितस्तुतितुल्यममानिमुनिमुख्य ! ॥ १८ ॥ भव्यजननयनकैरववने विकाशं सदा ददानेन । चन्द्रोपमितिर्भवतीसितन युक्तं जगन्नाथः ॥ १९ ॥ विषयमतिविषमरजनीविनाशमनिशं वितन्वता भवता । रवितोऽधिकेन लोके भौवि ख्यातिप्रतापेन ॥ २० ॥ भव्यविभारोचिष्णुनिराकरिष्णुर्भवं भयोपेतम् । एकस्त्वमेव संवरमिन्द्रियजयसम्भवं सत्यम् ॥ २१ ॥ चित्रं विशददयास्थः क्षमावतां मुख्यतां सदैव दधत् । सकलं भावारिकुलं नाथ ! त्वं त्रिभुवने विदितः ॥ २२ ॥ अमृतरसादपि समधिकरसं विशेषादशेषशान्तरसम् । नक्तं दिवापि चित्रं त्वं न सदा सावधान जिन ! ॥ २३ ॥ ननु नव्यरम्यरञ्जितसुरनम्यपद ! प्रभावतो भवतः । आजन्मजातवैराच्चित्रं तिर्यग्गणेनापि ॥ २४ ॥ विदितचरित्रेषु रहो मुख्यां के के न विषयजं सौख्यम् । जिनवर ! भवता तु जने तत् त्यक्तं विषमिवाऽवेत्य ॥ २५ ॥
१ अक्षमि हे ईश ! । २ अमानि। ३ तेन-भवता चन्द्रोपमितिः, युक्तं जगनाथः असि । ४ अभावि इति क्रियापदम् । ५ असौ त्वं सदा न न अधा:-अदधः । ६ आपि क्रियापदम् ।