________________
( ३६ ) .... जैनस्तोत्रसन्दोहे
[श्रीमहीमेर
[१६] श्रीमहीमेरुमुनिप्रणीता जिनस्तुतिपञ्चाशिका।
माहमाँऽतिक उपवर्ण्यमान
उतिवादी
(क्रियागुप्ता) सकलसुरेश्वरमुख्या विबुधाः सुविशुद्धबुद्धिनिधयोऽपि । स्तवनं तीर्थाधिपते ! 'जिनेश ! ते नैव कर्तुमिह ॥ १ ॥ इति जानन्नपि नित्यं तथाप्यहं मुग्धमानसः पवितुम् । 'विनयी हे जिनराज ! स्तवनमिषात्ते निजां जिह्वाम् ॥ २ ॥ मन्ये न सर्वशास्त्रे तव वृत्तं विबुधवर्ण्यमानमिह । पुण्यप्रभूतगुरुतरमहिमाऽतिक्रान्तसकलसुरम् ॥ ३ ॥ स्तुतिवादीक्षेऽमकरध्वजं जिन ! त्वां सुरेशसंसेव्यम् । समवसतिमध्यभा संसृतिहरणं कदा मोदात् ? ॥ ४ ॥ . तत्त्वतरुजलदधारासासितभूवलय ! भव्यजनवाराः । अतिशयसमूहशाली नाथ ! भवांश्चरणगुणपाली ॥५॥ सकल ! ससार ! सलक्षण ! संसारासारतां समधिगत्य। सर्वज्ञ ! सर्वसङ्गे भगवन्न भवानभावाय ॥ ६ ॥ संसारवारिराशिं विषमतरं दुस्तरं च जिनराज !। विदभासिततारसुखं लब्ध्वा वैराग्यमत्र भवान् ॥ ७ ॥
१ हे जिन ! ईशते । २ विनयो ईहे । ३ गुरुतरमहि माति । ४ ईक्षे । ५ नाथ-पालय । ६ ससार । ७ ततार-तीर्णवान् , सुखं क्रियाविशेषणम् ।