________________
सरिविरचितम् ] देवपत्तननिवासि-जिनस्तवनम् ( ३५ )
[१५]
श्रीविजयप्रभसूरीयम् श्रीदेवपत्तननिवासि-जिनस्तवनम् ।
नतनाकिनिकायनरप्रमदं प्रमदप्रकरप्रसरन्महिमम् ।। महिमण्डलमण्डनमात्महितं महितं जगता महताऽसुमता ॥१॥ सुमतिप्रदमुत्कुटमोहमहातमहानिकृते तरणेः किरणम् । किरणं जनवञ्छितदेवमणेर्मनसा श्रमणैर्विहितस्मरणम् ॥ २ ॥ स्मरणप्रवणं स्मरशूलभृतोऽभृत विश्वमसङ्ख्ययशःप्रसरैः । प्रसरत्कलिकालसुकल्पतरं तरुणीजनगीतगुणं भविनाम् ॥ ३ ॥ भवनाशकरं करुणानिलयं लयलीनमनोभवकायरुचम् । रुचिराननतर्जितचन्द्रमसमसमञ्जसजन्ममनोज्ञकरम् ॥ ४॥ करणद्विपमारणहस्तिरिपुं रिपुमित्रसमेक्षणमिष्टपरम् । परमार्हतपूजितपत्कमलं मलवर्जितकीर्त्तितरङ्गभरम् ॥ ५ ॥ भरणीपतिनिर्भयशर्मददं मददन्तिविभेदनकेशरिणम् । रणमुक्तममुं नुत पारगतं गतमत्सरमात्मनि भव्यजनाः ! ॥ ६ ॥
इत्थं श्रीविजयप्रभ
सूरीश्वरसिद्धिदो जिनो जीयात् । देवकपत्तनवासी
स्तुतो मया सुधनवृद्धिकरः ॥ ७ ॥