________________
(३४) जनस्तोत्रसन्दोहे, [श्रीविजयप्रभwwwwwwwwwww
आत्मानमात्मन्यवलोकमानस्त्वं दर्शनज्ञानमयं विशुद्धः । एकाग्रचित्तः खलु यत्र तत्र स्थितोऽपि साधो ! लभसे समाधिम्॥२५॥ एकः सदा शाश्वतिको ममात्मा विनिर्मलेक्षाधिगमस्वभावः । बहिर्भवाः सन्ति परे समस्ता न शाश्वताः कर्मभवाः स्वकीयाः ॥२६॥ यस्यास्ति नैक्यं वपुषाऽपि साई तस्यास्ति किं पुत्रकलत्रमित्रैः । पृथक्कृते चर्मणि रोमकूपाः कुतो हि तिष्ठन्ति शरीरमध्ये ? ॥२७॥ संयोगतो दुःखमनेकभेदं यतोऽनुते जन्मवने शरीरी । ततस्त्रिघाऽसौ परिवर्जनीयो यियासुना निर्वृतिमात्मनीनताम् ॥२८॥ सर्व निराकृत्य विकल्पजालं संसारकान्तारनिपातहेतुम् । विविक्तमात्मानमवेक्षमाणो निलीयसे त्वं परमात्मतत्त्वे ॥ २९ ॥ स्वयं कृतं कर्म यदात्मना पुरा फलं तदीयं लभते शुभाशुभम् । परेण दत्तं यदि लभ्यते स्फुटं स्वयं कृतं कर्म निरर्थकं तदा ॥३०॥ निजार्जितं कर्म विहाय देहिनो न कोऽपि कस्यापि ददाति किञ्चन । विचारयन्नेवमनन्यमानसः परो ददातीति विमुञ्च शेमुषीम् ॥ ३१ ॥
इति द्वात्रिंशता वृत्तैः परमात्मानमीक्षते । अनन्यगतचेतस्को यात्यसौ पदमव्ययम् ॥ ३२ ॥
यैः परमात्माऽमितगतिविद्यः सर्वविविक्तो भृशमनवद्यः । शश्वदधीतो मनसि लभन्ते मुक्तिनिकेतं विभवजरं ते ॥ ३३ ॥
१ ज्ञान । ३ संयोगः । ३ स्वहितकारिणीम् । ४ पश्यन्