________________
सूरिसूत्रितम्]
साधारणजिनस्तवनम्
(३३)
निषूदते यो भवदुःखजालं निरीक्षते यो जगदन्तरालम् । अन्तर्गतो योगिनिरीक्षणीयः स देवदेवो हृदये ममास्ताम् ॥१४॥ विमुक्तिमार्गप्रतिपादको यो यो जन्ममृत्युव्यसनव्यतीतः । त्रिलोकलोकीविकलोऽकलङ्कः स देवदेवो हृदये ममास्ताम् ॥ १५ ॥ क्रोडीकृताशेषशरीरिवर्गा रागादयो यस्य न सन्ति दोषाः । निरिन्द्रयो ज्ञानमयोऽनपायः स देवदेवो हृदये ममास्ताम् ॥ १६ ॥ यो व्यापको विश्वजनीनवृत्तिः सिद्धो विबुद्धो धुतकर्मबन्धः । ध्यातो धुनीते सकलं विकारं स देवदेवो हृदये ममास्ताम् ॥ १७ ॥ न स्पृश्यते कर्मकलङ्कदोषैर्यो ध्वान्तसबैरिव तिग्मरश्मिः । . निरञ्जनं नित्यमनन्तमेकं तं देवमाप्तं शरणं प्रपद्ये ॥ १८ ॥ विभासते यत्र मरीचिमाली न विद्यमाने भुवनाधिभासी। स्वात्मस्थितं बोधमयप्रकाशं तं देवमाप्तं शरणं प्रपद्ये ॥ १९ ॥ विलोक्यमाने सति यत्र विश्वं विलोक्यते स्पष्टमिदं विविक्तम् । शुद्धं शिवं शान्तमनाद्यनन्तं तं देवमाप्तं शरणं प्रपद्ये ॥ २० ॥ येन क्षता मन्मथ-मान-मूर्छा-विषाद-निद्रा-भय-शोक-चिन्ताः। क्षयानलेनेव तरुप्रपञ्चस्तं देवदेवं शरणं प्रपद्ये ॥ २१ ॥ न संस्तरोऽश्मा न तणं न मेदिनी विधानतो नो फलकं विनिर्मितम् । यतेर्निरस्ताक्षकषायविद्विषः सुधीभिरात्मैव सुनिर्मलो मतः ॥ २२ ॥ न संस्तरो भद्रसमाघिसाधनं न लोकपूजा न च सङ्घमीलनम् । यतस्ततो ध्यानरतो भवानिशं विमुच्य सर्वामपि बाह्यवासनाम् ॥२३॥ न सन्ति बाह्या मम केचनाऽर्था भवामि तेषां न कदाचनाहम् । इत्थं विनिश्चित्य विमुच्य बाह्यं स्वस्थः सदा त्वं भव भद्र! मुक्तौ ॥२४॥
१ परमात्मस्वरूपे । २ प्रलयकालाग्निना इव ।
-
-
-