________________
( ३२ )
जेनस्तोत्र सन्दोहे
[श्रीअमरचन्द्र
VVVAAAAAAAAA
दुःखे सुखे वैरिणि बन्धुवर्गे योगे वियोगे भवने वने वा । निराकृताशेषममत्वबुद्धेः समं मनो मेऽस्तु सदापि नाथ ! ॥३॥ मुनीश ! लीनाविव कीलिताविव स्थिरैर्निखाताविव बिम्बिताविव । पादौ त्वदीयौ मम तिष्ठतां सदा तमो धुनानौ हृदि दीपकाविव ॥४॥ एकेन्द्रियाद्या यदि देव ! देहिनः प्रमादिना सञ्चरता यतस्ततः । क्षता विभिन्ना मलिता निपीडिता ममास्तु मिथ्या दुरनुष्ठितं तदा ॥ ५ ॥ मुक्तिमार्गप्रतिकूलवर्तिना मया कषायाक्षवशेन दुर्धिया । चारित्र्यशुद्धेर्यदकारि लोपनं तदस्तु मिथ्या मम दुष्कृतं प्रभो ! ॥ ६ ॥ विनिन्दनालोचनगर्हणैरहं मनोवचः कायकषायनिर्मितम् । निहन्मि पापं भवदुःखकारणं भिषग् विषं मन्त्रगुणैरिवाखिलम् ॥७॥ अतिक्रमं यं यमपि व्यतिक्रमं जिनातिचारं स्वचरित्रकर्मणः । व्यधामनाचारमपि प्रमादतः प्रतिक्रमं तस्य करोमि शुद्धये ॥ ८॥ क्षितिं मनः शुद्विविधेरतिक्रमं व्यतिक्रमं शीलवृतेर्विलङ्घनम् । प्रभोऽतिचारं विषयेषु वर्तनं वदन्त्यनाचारमिहातिशक्तिताम् ||९|| यदर्थमात्रापदवाक्यहीनं मया प्रमादादिह किञ्चनोक्तम् । तन्मे क्षमित्वा विदधातु देवी सरस्वती केवलबोधलब्धिम् ||१०|| बोधिः समाधिः परिणामबुद्धिः स्वात्मोपलब्धि: शिवसौख्यसिद्धिः । चिन्तामणिं चिन्तितवस्तुदाने त्वां वन्दमानस्य ममाऽस्तु देव ! ॥ ११ ॥ यः स्मर्यते सर्वमुनीन्द्रवृन्दैर्यः स्तूयते सर्वनरामरेन्द्रैः ।
यो गीयते वेदपुराणशास्त्रैः स देवदेवो हृदये ममास्ताम् ॥१२॥ यो दर्शनज्ञानसुखस्वभावः समस्तसंसारविकारबाह्यः । समाधिगम्यः परमात्मसञ्ज्ञः स देवदेवो हृदये ममास्ताम् ॥१३॥